पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

Nnnn - तथा च-अन्धक' कुब्जकश्चैव त्रिस्तनी राजकन्यका । त्रयोऽप्यन्यायतः सिद्धाः संमुखे कर्मणि स्थिते ।। ८६ ।। सुवर्णसिद्धिः प्राह-'कथमेतत्' । सोऽब्रवीत्- ११. अन्धककुब्जकत्रिस्तनीकथा अस्त्युत्तरापथे मधुपुरं नाम नगरम् । तत्र मधुसेनो नाम राजा बभूव । तस्य कदाचिद्विषयसुखमनुभवतस्त्रिस्तनी कन्या वभूव। अथ तां त्रिस्तनीं जातां श्रुत्वा स राजा कञ्चुकिन. प्रोवाच- 'योः ! त्यज्यतामियं त्रिस्तनी गत्वा दूरेऽरण्ये यथा कश्चिन्न जानाति' । तच्छुत्वा कञ्चुकिनः प्रोचुः-'महाराज ! ज्ञायते यद- निष्टकारिणी विस्तनी कन्या भवति. तथापि ब्राह्मणा ओहूय प्रष्टव्या येन लोकद्वयं न विरुध्यते। यतः- य' सततं परिपृच्छति शृणोति सन्धारयत्यनिशम् । तस्य दिवाकरकिरणैर्नलिनीव विवर्द्धते बुद्धि. ।। ८७ ॥ तथा च-पृच्छकेन सदा भाव्यं पुरुषेण विजानता । राक्षसेन्द्रगृहीतोऽपि प्रश्नान्मुक्तो द्विज' पुरा ॥ ८८ ।। राजा आह-'कथमेतत् ?' । ते प्रोचुः- १२. राक्षसगृहीतब्राह्मणकथा 'देव । कस्मिश्चिद्वनोद्देशे चण्डका नाम राक्षसः प्रति यस्य-रावणस्य । 'मन्त्राधारभूत'मिति शेष । दैववशात् भाग्यविपर्ययात् । विपन्न कालवशङ्गत ॥ ८५ ।। विषयसुख-त्रीसेवाम् । कञ्चु किन =अन्त पुरक्षकान् । न विरुध्यते न विरुद्ध भवति, पापमयशश्च न भवति । अनिश-निरन्तरम् । नलिनीव-कमलिनीव । विवर्द्धतेविकसति ॥ ८७ ॥ १. अनयोऽपि नय याति यावच्छ्रीभजते नरम् ।' पाठान्तरम् । २. श्यथाऽश्लीलत्वात्काशिकराजकीयप्रथमपरीक्षापाठ्यवहिर्भूता।