पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[५ अपरीक्षित- उलीकमयेन ? । त्वद्भक्ष्योऽयं मानुपः। भक्ष्यताम् ।' सोऽपि वानरवचो निशम्य स्वरूपमाधाय शङ्कितमनाःस्व. धलितगतिनिवृत्तः। चौरोऽपि तं वानराहूतं ज्ञात्वा कोपात्तस्य लाङ्गेलं लम्बमानं मुखे निधाय चवितवान् । वानरोऽपि तं राक्ष. साभ्यधिकं मन्यमानो भयान्न किश्चिदुक्तवान् , केवलं व्यथातों निमीलितनयनस्तिष्ठति । राक्षसोऽपि तं तथाभूतमवलोक्य लोकमेनमपठत- 'याशी वदनच्छाया दृश्यते तव वानर !। विकालेन गृहीतोऽसि, यः परैति स जीवति ॥ ८४ ।। उक्त्वा प्रनष्टश्च । * तत्प्रेपय मां येन गृहं गच्छामि। त्वं युनरनुभुङ्क्षवाऽत्र स्थित एव लोभवृक्षफलम् ।' चक्रधरः प्राह-भोः अकारणमेतत् । दैववशात्सा पद्यते नृणां ५ शुभाऽशुभम् । उक्तञ्च- दुर्गस्त्रिकूटः, परिखा समुद्रो, रक्षांसि योधा, धनदाञ्च वित्तम् । शास्त्रं च यस्योशनसा प्रणीतं, स रावणो दैववशाद्विपन्नः ॥८५|| राक्षससुहृत् अश्वरूपधारिराक्षसमित्रम् । तेन-वानरेण । अलीकभयेन- मिथ्याभयेन । त्वद्भक्ष्यः-तव राक्षसस्य भक्ष्यभूतः। स्वरूप-राक्षसाकारम् । आधाय-गृहीत्वा । शङ्कितमना =किमयं मनुष्यो राक्षसो वेति शङ्कमानः। अत एव स्खलद्गति -मन्दमन्दगमन. । 'स्खलितगतिः' इति पाठान्तरम् । तं-राक्ष- सम् । वानरेण आहूतम् आकारितम् । तस्य वानरस्य। लालंपुच्छम् । निधाय स्थापयित्वा । राक्षसाभ्यधिकं-राक्षसादपि वलीयासम् । व्यथातः पीडा- कुलः । अत एव निमीलितनयन. निमीलितलोचनः । तं-वानरम् । प्रनष्टश्च= गुलायितश्च ( भाग गया) ॥ ८४ ॥ मां सुवर्णसिद्धिम् । अनभुड्क्ष्व अनुभव । एतत्-मदीयं दुःखम् । अका- स्ण-मदीयलोभादिरूपकारणशून्यम् । दैववशात् अदृष्टाधीनतया । त्रिकूट = त्रिकूटपर्वतः । दुर्ग: कोट्टादिकं । ('किला')। समुद्र -परिखा खेयम् । ('खाई')। घनदात्-कुवेरात् । उशनसा-शुक्रेण । प्रणीतं-निर्मितम् । शास्त्र-नीतिशास्त्रम् ।