पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३९५ ,

तयाऽस्मद्वचनं न श्रोष्यति । ततोऽहं समुत्थाय तां पादप्रहारेण

ताडयिष्यामि' । पव तेन ध्यानस्थितेन तथैव पादप्रहारो दत्तो यथा स घटो भग्नः, स्वयश्च सक्तुभिः पाण्डुरतां गतः। अतोऽहं ब्रवीमि-'अनागतवती चिन्ताम्' इति । सुवर्णसिद्धिराह-एवमेतत्, कस्ते दोपः, यतः-सर्वोऽपि लोभेन विडम्बितो बाध्यते । उक्तञ्च- 'यो लोल्यात्कुरुते कर्म न चोदकमवेक्षते । विडम्बनामवाप्नोति स यथा चन्द्रभूपति' ॥ ६९ ।। चक्रधर आह-'कथमेतत् ? ।' स आह- ९. वानरविडम्बितचन्द्रभूपतिकथा कस्मिश्चिन्नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म। तस्य ५ पुत्रा वानरक्रीडारता वानरयूथं नित्यमेवानेकभोजनभक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानरयूथाधिपो यः स औशनस बार्ह- स्पत्य-चाणक्यमतवित्, तदनुष्टाता च। तत्सर्वानप्यध्याप- यति स्म। अथ तस्मिन्राजगृहे लघुकुमारवाहनयोग्य मेषयूथमस्ति । तन्मध्यादेको जिह्वालोल्यादहर्निशं निःशवं महानसे प्रविश्य कर्मव्यग्रतया भोजनादिव्यापारसक्ततया। एवम् इत्थं नानाविधमिथ्याक्ल्पनाभि । तेन स्वभावकृपणेन विप्रेण । (शेखचिल्ली ) । पाण्डुरता-धूमरताम् । ते=सिद्धि- भ्रष्टस्य चक्रधरस्य । विडम्बित-प्रतारितः लोल्यात चापल्यात् । उदर्क.-उत्तरं फलम् । 'उदर्कस्तृत्तरं फल मिति कोशात् । विडम्बना-वञ्चनाम् ('ठगा जाना' ) ॥ ६९ ॥ वानरक्रीडासु कपिक्रीडासु । रता =निरता ,-वानरयूथं मर्कटवृन्दम् । अनेकभोजनभक्ष्यादिभि -नानाविधभक्ष्य-भोज्य-लेह्यादिभिः। उशनसा प्रोक्त- मधीते-तद् वेत्तीति तथा। सकलनीतिशास्त्रपारङ्गतः । यहा-उशनस इदा- शनसमिति रीत्या तस्येदमित्यण । तदनुष्ठाता-नीतिसंमतकार्यकर्ता । तान् वान- १. 'सुवर्णसिद्ध ' इति पाठान्तरम् । २ 'न चाऽनर्थम् । पा० ।