पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रसू*

[५ अपरीक्षित- वसति स्म। तेन भिक्षार्जितैः सक्तभिर्भुक्तशेषैः कलशःसंपूरितः। तं च घटं नागदन्तेऽवलम्ब्य तस्याधस्तात्खटां निधाय सतत- मेकदृष्ट्या तमवलोकयन् कदाच्छिद्रात्रौ सुप्तश्चिन्तयामास । यत्,- परिपूर्णोऽयं घटस्तावत्सक्तभिर्वर्तते । तद्यदि दुर्भिक्षं भवति तद. नेन रूपकाणां शतमुत्पत्स्यते। ततस्तेन मयाऽजाद्वयं ग्रहीत- व्यम् । ततः पाण्मासिकप्रसववशात्ताभ्यां यूथं भविष्यति । ततो. उजाभिः प्रभूता गा ग्रहीष्यामि। गोभिर्महिषीः । महिषीभिर्व- डवाः। वडवाप्रसवतः प्रभूता अश्वा भविष्यन्ति । तेषां विक्रया. त्प्रभूतं सुवर्ण भविष्यति । सुवर्णेन चतुःशालं गृहं सम्पत्स्यते । ततः कश्चिद्राह्मणो मम गृहमागत्य प्राप्तवयस्कां रूपाढ्यां कन्यां दास्यति । तत्सकाशात्पुत्रो मे भविष्यति । तस्याहं सोमशमॆति नाम करिष्यामि । ततस्तस्मिानुचलनयोग्ये सजातेऽहं पुस्तकं गृहीत्वाऽश्वशालायाः पृष्टदेशे उपविष्टस्तदवधारयिष्यामि। अत्रा- न्तरे सोमशर्मा मां दृष्टा जनन्युत्सङ्गाजानुप्रचलनपरोऽश्वखुरा. ऽऽसन्नवर्ती सत्समीपमागमिष्यति। ततोऽह ब्राह्मणी कोपावि. टोऽभिधास्यामि-'गृहाण तावद्वालकम् ।' सापि गृहकर्मव्यग्र. स्वभावेन-कृपणः बद्धमुष्टिः । नाम-प्रसिद्धः। भिक्षार्जित -भिक्षाप्राप्त । भुक्तशेषैः भोजनावशिष्टैः । सक्तुभि =भृष्टयवचणकचूर्णैः । कलश.-घट । नाग- दन्ते-भित्तिरोपिते काष्ठे। ( 'खूटी' पर)। तस्य नागदन्तस्थस्य घटस्य । एकदृष्ट्या निनिमेपलोचनेन । तं घटम् । दुर्भिक्षम् अनावृष्टि । अनेन=सक्तु- घटेन। उत्पस्यते लप्स्यते। अजाद्वय छागमिथुनम्। तत-अजाद्वयग्रहणानन्तरं । पाण्मासिकप्रसववशात षण्मासाभ्यन्तरगर्भोत्पत्तिपरम्परया। ताभ्या-छागाभ्याम् । यूथम् अजवृन्दम् । प्रभूता. विपुला । वडवा. अश्वा (घोडी)। प्रसवता= गर्भग्रह्णमोचनादिभिः । चतु शालं चतुर्दिक्शालाशोभितम् । प्राप्तवयस्का युवतिम् । रूपाच्या रूपवतीम् । दास्यतिविवाहार्थमिति शेष । तस्मिन् सोमश- मणि । जानुचलनयोग्ये-पादविक्षेपसमर्थे । तत् जानुचलनम् । जनन्युत्सद्भात- मातुरड्कात् । अश्वखुरासन्नवर्ती घोटकपादनिकटचरः। कोपाविष्टः क्रुद्धः । गृहः १ 'उत्पद्यते' इति पा०॥