पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३९३ मूल्येन विशेपकृत्यानि करिष्यसि । एवं सौख्येन स्वजातिमध्ये लाध्यमानस्य कालोयास्यति,लोकद्वयस्योपार्जनाच भविष्यति।' सोऽपि तदाकर्ण्य प्रहृष्टः प्राह-साधु पतिव्रते ! साधु, युक्त- सुक्तं भवत्या। तदेवं करिष्यामि । एप मे निश्चयः।' ततोऽसौ गत्वा व्यन्तरं प्रार्थयाञ्चक्रे-भोः, यदि ममेप्सितं प्रयच्छसि, तद्देहि मे द्वितीयं वाहुयुगलं, शिरश्च ।' एवमभिहिते तत्क्षणादेव द्विशिराश्चतुर्बाहुश्च संजातः । ततो हृष्टमना यावगृहमागच्छति, तावल्लोकै 'राक्षसोऽयमिति मन्य- मानैर्लगुडपापाणप्रहारैस्ताडितो मृतश्च। अतोऽहं ब्रवीमि-'यस्य नास्ति स्वयं प्रज्ञा' इति । चक्रधर आह-भोः सत्यमेतत् , सर्वोऽपि जनोऽश्रद्धेय- कदाशापिशाचिकायस्तो हास्यपदवीं याति । अथवा साध्विद मुच्यते केनापि- 'अनागतवती चिन्तामसंभाव्यां करोति यः । स एव पाण्डुर. शेते सोमशर्मपिता यथा ॥ ६८।। सुवर्णसिद्धिराह-'कथमेतत्' ? । सोऽब्रवीत्- ८. भाक्सिोमशर्मपितृकथा कस्मिश्चिन्नगरे कश्चित्स्वभावकृपणो नाम ब्राह्मणः प्रति- स्वस्य । याचस्ववृणु । पुरत =अग्रत । विशेपकृत्यानि नैमित्तिकमङ्गलकृत्यानि। -सौख्येन-आनन्देन । इलाध्यमानस्य-स्तूयमानस्य । काल =जीवनम् । लोक- द्वयस्य-स्वर्गलोकमर्त्यलोकाख्यलोकद्वयस्य । आकर्ण्य श्रुत्वा । ईप्सितम् वाञ्छि- तम् । तत्क्षणादेव-अटिति । लगुड =दण्ड । पाषाण प्रस्तर । अश्रद्धेया जघन्याम् । कदाशापिशाचिकाग्रस्त. आशारूपदुष्टपिशाचीगृहीत । हास्यपदवी उपहास्यताम् । अनागतवती अनागताम् । असम्भाव्या असम्भावनीयाम् । पाण्डुर चिन्तामलिन , सक्तुधूसरश्च ॥ ६८ ॥ १. 'अश्रद्धेयामाशापिशाचिकां प्राप्य' इति पाठान्तरम् ।