पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[५ अपरीक्षित- यदैव राज्ये क्रियतेऽभिषेकस्तदैव याति व्यसनेषु बुद्धिः । घटा नृपाणामभिषेककाले सहाम्भसैवापदमुद्गिरन्ति ॥ ६५ ॥ तथा च- रामस्य व्रजनं वैने, निवसनं पाण्डोः सुतानां वने, वृष्णीनां निधनं, नलस्य नृपते राज्यात्परिभ्रंशनम् । सौदासं तदवस्थमर्जुनवधं संचिन्त्य लकेश्वरं- दृष्वा राज्यकृते विडम्बनगतं तस्मान्न तद्वाञ्छयेत् ॥६६॥ यदर्थ भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः-। वधं राज्यकृतां राज्ञां, तद्राज्यं दूरतस्त्यजेत् ।। ६७ ॥ कौलिक आह-'सत्यमुक्तं भवत्या। तत्कथय किं प्रार्थये ?। साऽह-त्वं तावदेकं पटं नित्यमेव निष्पादयसि। तेल सर्वा व्यय- शुद्धिः संपद्यते। इदानीं त्वमात्मनोऽन्यद्वाहुयुगलं, द्वितीयं शिरश्च याचस्व । येन पटद्वयं सम्पादयसि पुरतः पृष्ठतश्च । एकस्य मूल्येन गृहे यथापूर्व व्ययं सम्पादयिष्यसि । द्वितीयस्य मलक्षितावस्थानम् । सुखं न प्रयच्छति-न ददाति । अस्य 'राज्यस्थिति रिति पूर्वेण सम्बन्धः। यदैव नृणां राज्येऽभिषेक =सविधि स्थापनं क्रियते,-तदा प्रभृत्येव,व्यसने आपत्सु । ननु-नृपाणाम् अभिषेककाले घटा -अम्भसा जलेन सहैव-आपदम् उद्गिरन्ति वमन्ति । तदेवं नानाचिन्तासमाकुलं राज्यमित्याशय ॥ ६५॥ रामस्य वने-व्रजनं गमनम् । पाण्डोः सुताना वने निवसनम् । वृष्णीनां= यादवानाम्। निधन-मरणम् । नलस्य नृपतेः-राज्यभ्रंगम् । सौदासस्य राजो वसिष्ठ- शापाद्राक्षसयोनिगमनम् । कार्तवीर्यार्जुनस्य परशुरामेण वधञ्च, सञ्चिन्त्य-विचार्य । किञ्च लद्देश्वरं-रावणं, राज्यकृते राज्यार्थ, विडम्बनगतं कालवशगतं दृष्ट्वा, तत् राज्यं, न वाञ्छयेत्-नैव इच्छेत् ॥६६॥ यदर्थ-राज्यार्थ, भ्रातरः, पुत्राः, एवं ये निजाः = बान्धवाः,-राज्यकृता राज्येऽभिषिक्ताना राज्ञा-नृपाणा, वधं घातं, वाञ्छन्ति, तद्राज्यं विद्वान् जीवितमिच्छन् दूरतः-त्यजेत् ॥ ६७ ॥ निष्पादयसि निर्मासि । व्ययशुद्धि. गृहोचितव्ययनिर्वाहः। आत्मनः= १ 'तदैव बुद्धिर्व्यसनेषु योज्या। २ 'बलेनियमन' । पा० ।