पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

एताः स्वार्थपरा नार्यः केवलं स्वसुखे रताः। ने तासां वल्लभः कोऽपि सुतोऽपि स्वसुखं विना ।। ६३ ॥ कौलिक आह-तथापि प्रष्टव्या सा मया, यतः पतिव्रता सा। अपरं तामपृष्ट्वाऽहं न किंचित्करोमि।' एवं तमभिधाय सत्वरं गत्वा तामुवाच-'प्रिये! अद्यास्माकं कश्चियन्तरः सिद्धः। स वाञ्छितं प्रयच्छति । तदहं त्वां प्रष्टुमागतः । तत्-कथय किं प्रार्थये ?। एष तावन्मस मित्रं नापितो वदत्येवं यत्-'राज्यं प्रार्थयस्व ।' साऽऽह-'आर्यपुत्र ! का मति पितानाम् ? । तन्न कार्य तद्वचः । उक्तञ्च- चारणैर्बन्दिभिर्नीचै पितैलिकैरपि नै मन्त्रं मतिमान्कुर्यात्साध भिक्षुभिरेव च ॥ ६४ ॥ अपरं-महती क्लेशपरम्परा-एषा राज्यस्थितिः, सन्धि- विग्रह-याना-ऽऽसन-संश्रय द्वैधीभावादिभिः कदाचित्पुरुपस्य सुखं न प्रयच्छतीति । यतः- एता नार्य. स्वार्थपरा केवल स्वसुखे रता -तासा स्वसुखं विना कोऽपि (किंबहुना)-सुतोऽपि न वल्लभ । स्वसुखार्थमेव खलु एता. पुत्रममि वाञ्छन्ती- त्याशय ॥६३॥ तथापि स्वार्थपरा यद्यपि स्त्रिय, तथापि सा-मद्भार्या। अपरं-किञ्च । वाञ्छित मनोरथम् । आर्यपुत्र-प्रिय ! । 'आर्यपुत्रेति सम्भाष्यो भर्ता स्त्रीभिस्तु यौवने'इत्युक्ते । मति =बुद्धि । तद्वच =नापितोक्तम् । चारणा =कुशीलवा , राजप्रशसका। बन्दिन -स्तुतिपाठका । नीचैः- • अधमै । भिक्षुभिः-ननकादिभिश्च सह मतिमान् मन्त्रं न कुर्यात् ॥ ६४ ॥ अपर=किञ्च । क्लेशपरम्परा=दुःखपरिपाटी। राज्यस्थितिः-राज्यपालनम् । सन्धि -पणबन्धपूर्वकं परेण सन्धान । विग्रह =युद्धम् । यान-विजिगीषोर्युद्धाय यात्रा । आसन-तुल्यबलयोर्दुर्गादौ कालप्रतीक्षया तूष्णीमवस्थानम् । संश्रय = बलीयस आश्रयणं । द्वैधीभाव =वाक्चातुर्येण वलवति रिपौ स्वात्मसमर्पणपूर्वक १'न तासा वल्लभो यस्मात्स्वतुतोऽपि तुख विना' । पाठा० । २'न मन्त्री यतिभिः कार्य..