पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

चक्रधर आह-'कथमेतत् १ । सोऽब्रवीत्- ६. गीतपररासमशृगालकथा कस्मिंश्चिदधिष्ठाने उद्धतो नाम गदर्भः प्रतिवसति स्म । ल सदैव रजकगृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्यटति । ततः प्रत्यूपे बन्धनभयात्स्वयमेव रजकगृहमायाति । रजकोऽपि ततस्तं बन्धनेन नियुनक्ति । अथ तस्य रात्रौ क्षेत्राणि पर्यटतः कदाचिच्छृगालेन सह मैत्री संजाता। स च पीवरत्वाद्वतिभङ्गं कृत्वा कर्कटिकाक्षेत्रेशृगालसहितः प्रविशति। एवं तौ यदृच्छया चिटिकाभक्षणं कृत्वा प्रत्यहं प्रत्यूपे स्वस्थानं व्रजतः । अथ कदाचित्तेन मदोद्धतेन रासभेन क्षेत्रमध्यस्थितेन शृगा. लोऽभिहितः-'भो भगिनीसुत ! पश्य-पश्य, अतीव निर्मला जा रजनी। तदहं गोतं करिष्यामि, तत्कथय कतमेन रागेण करोमि। स आह-'माम ! किमनेन वृथाऽनर्थप्रचालनेन ? । यतश्चौर. कर्मप्रवृत्तावावा; निभृतैश्च चौरजारैरत्र स्थातव्यम् । उक्तञ्च- गीतप्रशस्तिसूचक चिह। सम्प्राप्तम् भवता लब्धं। स्वचापलेनैव माम ! बद्धोऽसि, अनुभवेदानी स्वकृतस्य कर्मणो विपाकमित्याशय.। अन्योऽपि गान- कुशलो राजादिदत्तं मण्यादिकं कण्ठे वध्नातीति साम्यम् ॥ ४९ ॥ रजकगृहे निर्णेजकगृहे। भारोद्वहन वस्त्रादिभारवहन । कृत्वा-विवाय । स्वेच्छया यथेच्छं। पर्यटति-भ्रमति । ततः-पर्यटानन्तरं । 'प्रत्यूषे-प्रभाते,- वन्धनभयात-क्षेत्राधिपादिकृतं रजककृतं वा बन्धनं ताडनञ्च शङ्कमान । वन्धनेन रज्जुकृतेन। नियुनक्ति-वध्नाति । क्षेत्राणि पर्यटता क्षेत्रेषु परिभ्रमत । भृगालेन-जम्बुकेन । स =रासभः । पीवरत्वात् । वृतिमङ्ग-क्षेत्रप्राचीरभझं। ('बाड़ तोडकर')। कर्कटिकाक्षेत्रे त्रपुसीक्षेत्रे। ('ककडी के खेत में')। यदृच्छयास्वेच्छया। चिटिका कर्कटिका । भगिनीसुत-भागिनेय । निर्मला चन्द्रज्योत्नाधवला । रजनी-रात्रिः। गीतं-गानं । रागेण-'गान'मिति शेष । १ 'चिटिकेति पाठान्तरम् । २ 'कर्कटिके ति पाठान्तरम् । २५