पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४

  • पञ्चतन्त्रम् *

[५ अपरीक्षित मण्डूककर्कटादयो गृहीताः, तावपि शतबुद्धि-सहस्रबुद्धी सभार्यों पलायमानौ चिरमात्मानं गतिविशेषविज्ञानैः कुटिलचारेण रक्ष. न्तावपि जाले पतितौ, व्यापादितौ च । अथाऽपराह्नसमये प्रहृष्टास्ते धीवरा:स्वगृहं प्रति प्रस्थिताः। गुरुत्वाच्चैकेन शतबुद्धिः स्कन्धे कृतः । सहस्रबुद्धिः प्रलम्वमानो नीयते। ततश्च वापीकण्ठोपगतेन मण्डूकेन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नी-'प्रिये ! पश्य पश्य- 'शतबुद्धिः शिरस्थोऽयं, लम्बते च सहस्रधीः । एकबुद्धिरहं भद्रे! क्रीडामि विमले जले।' अतश्च 'वरं बुद्धिर्न सा विद्या' इत्यादि यद्भवता उक्तं, तत्रेयं मे मतिर्यत्-'नैकान्तेन बुद्धिरपि प्रमाणम् ।' ® सुवर्णसिद्धिः प्राह-'यद्यप्येतदस्ति, तथापि मित्रवचनं न लवनीयम् । परं किं क्रियते, निवारितोऽपि मया न स्थितोऽसि लौल्यात, विद्याहङ्काराच्च । अथवा साधु इदमुच्यते- 'साधु मातुल ! गीतेन मया प्रोक्तोऽपि न स्थितः । अपूर्वोऽयं मणिबंद्धः, सम्प्राप्तं गीतलक्षणम् ।। ४९ ।। चिरं-बहुकालं । गतिविशेषविज्ञानः नानाविधजलतरणविज्ञानपाटवैः । कुटिलचारेण नानाविधवक्रगमनेन । गुरुत्वात् भारवत्त्वात् । प्रलम्बमानः अधो लम्बमानः, आकृष्यमाणश्च, '( लटकता हुआ)। वापीकण्ठोपगतेन-दीर्घिका- तटोपविष्टेन । ( वापी वावड़ी )। तौ सहस्रबुद्धिशतबुद्धी । तथा शिरसि धृत्वा, आकर्षणेन च । एका पलायनमेव वरम्' इति बुद्धिर्यस्यासौ-एकवुद्धिः। विमले निर्मले । एकान्तेन सर्वदा । प्रमाण कार्यसाधनम् । परं-किन्तु । स्थितः-गमनानिवृत्तः। अतिलौल्यात अतिचापल्यात् । मातुलम्माम ! । आत्मीयभावद्योतनाय सम्बोधनमिदम् । गीतेन साधु गीतेन अलं। गीताद्विरतो भव । साधुपदमलमर्थकमव्ययं मन्तव्यम् । ( अथवा' गीतेन साधु युक्तं गीत। प्रकृत्यादित्वादभेदे तृतीया । प्रोक्तः प्रतिषिद्ध, -इत्यर्थ.)। अपूर्वः अद्भुतः। मणिः मणिस्थानीयमुदूखलं-बद्धः । गीतलक्षणं- 1