पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

तत्तावत्तेषामागमनमपि न संपत्स्यते, भविष्यति वा तर्हि त्वां वुद्धिप्रभावेणात्मसहितं रक्षयिष्यामि, यतोऽनेकां सलिलग- तिचर्यामहं जानामि ।' तदाकर्ण्य शतवुद्धिराह-'भोः, युक्तमुक्तं भवता, सहस्रबुद्धिरेव भवान् । अथवा साध्विमुच्यते- बुद्धर्बुद्धिमतां लोके नास्त्यगम्यं हि किञ्चन । बुद्धथा यतो हता नन्दाश्चाणक्येनाऽसिपाणयः ॥ ४६ ।। तथाच-न यत्रास्ति गतिर्वायो रश्मीनां च विवस्वतः। तत्रापि प्रविशत्याशु बुद्धिबुद्धिमतां सदा ।। ४७ ॥ ततो वचनश्रवणमात्रादपि पितृपर्यायागतं जन्मस्थानं त्यक्तुं न शक्यते। न तत्स्वर्गेऽपि सौख्यं स्यादिव्यस्पर्शेन शोभने । कुस्थानेऽपि भवेत्पुंसां जन्मनो यत्र संभवः ।। ४८ ॥ तन्न कदाचिदपि गन्तव्यम् , अहं त्वां स्वबुद्धिप्रभावेण रक्ष- यिष्यामि' । मण्डूक आह-'भद्रौ! मम तावदेकैव बुद्धिः पला यनपरा । तदहमन्यं जलाशयमद्यैव सभार्यों यास्यामि ।' एवमुक्त्वा स मण्डूको रात्रावेवाऽन्यजलाशयं गतः। धीच- रैरपि प्रभाते आगत्य जघन्यमध्यमोत्तमजलचरा मत्स्यकूर्म- सम्पत्स्यते-सिद्धि गमिष्यति । आत्मसहितं सहस्रबुद्धिना स्वेन सहितं । सलिलगतिचर्या जलचलचातुर्य । युक्तम्-उचितम् । बुद्धिसता बुद्धेलोंके किञ्चन अगम्यं नास्ति, यत -नन्दाख्याः-असिपाणय धृतायुधा राजान -चाणक्येन एकाकिनाऽसहायेनाऽपि विप्रेण वुद्धया हता ॥४६॥ यत्र वायोर्गति स्ति, विवस्वतो रश्मीनाञ्च यत्र गति स्ति, तत्रापि बुद्धिमता बुद्धिः आशु-शीघ्रं प्रविशति ॥ ४७ ॥ तत =बुद्धया कार्यसिद्धिसम्भवे । वचनश्रवणमात्रात्-धीवरोक्तवचनाकर्ण- नमात्रात् । पितृपर्यायागतं वंशक्रमागतं । जन्मस्थानं जलाशयः। नेति । दिव्याङ्ग- नादिस्पर्शेन शोभने-सुखदे स्वर्गेऽपि तत्सौख्यं न स्यात् , यत्-यत्र जन्मसम्भव. तत्र कुस्थानेऽपि-पुंसा सुखमेव-सौख्य भवति ॥४॥भद्रौ-महाशयो। पलायन- परा-पलायनप्रधाना । जघन्या. कनिष्ठा , मध्यमाः युवान , उत्तमा.वृद्धाः ।