पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३७५ , चकमस्तकमपश्यत् । ततो द्रुततरं गत्वा तमवोचत्-'भोः, को भवान् ?, किमेवं चक्रेण भ्रमता शिरसि तिष्ठसि । तत्कथय मे यदि कुत्रचिजलमस्ति । यतस्तृपातॊऽस्मि'इति । एवं तस्य प्रवदतस्तञ्चकं तत्क्षणात्तस्य शिरसो ब्राह्मणम- स्तके चटितम् । स आह–'भद्र, ! किमेतत् ? । स आह- 'ममाप्येवमेतच्छिरसि चटितम् । स आह-तत्कथय कदैतदुत्त- रिष्यति, महती मे वेदना वर्तते । स आह-यदा त्वमिव कश्चिद्धृतसिद्धवातरेवमागत्य त्वामालापयिष्यति, तदा तस्य मस्तके चैटिण्यति। स आह-कियान्कालस्तवैवं स्थितस्य ?।' स आह- साम्प्रतं को राजा धरणीतले ?।' स आह-'वीणावत्सराजः।' स आह-अहं तावत्कालसङ्ख्यां न जानामि, परं यदा रामो ' राजाऽऽसीत्तदाहं दारिन्योपहतः सिद्धवर्तिमादायाऽनेन पथा समायातः । ततो भयाऽन्यो नरो मस्तकधृतचको दृष्टः, पृष्टश्च । ततश्चैतज्जातम् ।' स आह-'भद्र, ! कथं तवैवं स्थितस्य भोजनजलप्राप्ति- रासीत् ?।' स आह-'भद्र,! धनदेन निधानहरणभयात्सिद्धा- नामेतच्चक्रपतनरूपं भयं दर्शितम् , तेन कश्चिदपि नागच्छति । यदि कश्चिदायाति, स क्षुत्पिपासानिद्रारहितो जरामरणवर्जितः केवलमेवं वेदनामनुभवतीति । तदापय मां स्वगृहाय ।' इत्युक्त्वा गतः। भूमिमार्गभ्रष्टः । स्थलोपरि-समतलप्रदेशे। भ्रमत् चक्रं मस्तके यस्यासौ तं तथाभूतं । तस्य-पूर्वोक्तस्थलस्थपुरुषस्य। शिरस-मस्तकात् । चटितम् अधि- रुढं । ('चढ गया')। एवमागत्य त्वमिव लोभाकान्त. सिद्धिमार्गच्युत आगत्य । वीणावत्सराज -कौशाम्बीपतिः पाण्डववंशजो राजा कश्चित् । कालसङ्ख्या वर्षयुगादिसवय । धनदेन भगवता कुवेरेण । एवं-चक्रभ्रमिजन्यां न तु भुत्तृष्णा १ 'समारुरोह' । २ 'आरूढम्' । ३ 'समारोक्ष्यति' । पा० ।