पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३७३ दुरधिगमः परभागो यावत्पुरुपेण साहसं न कृतम् । जयति तुलामधिरूढो भास्वानिह जलदपटलानि ॥ ३४ ॥ तत्कथ्यतामस्माकं कश्चिद्धनोपायो विवरप्रदेश-शाकिनीसा. । धन-श्मशानसेवन-महामांसविक्रय-साधकवर्तिप्रभृतीनामेकतम इति । अद्भुतशक्तिर्भवाश्रूयते । वयमप्यतिसाहसिकाः। उक्तञ्च- महान्त एव महतामर्थ साधयितुं क्षमाः । ऋते समुद्रादन्यः को विभर्ति वडवानलम् ? ॥ ३५ ॥ भैरवानन्दोऽपि तेषां सिद्धयर्थ बहूपायं सिद्धवर्तिचतुष्टयं कृत्वाऽऽर्पयत् । आह च-गम्यतां हिमालयदिशि, तत्र संप्रा. शानां यत्र वर्तिः पतिष्यति तत्र निधानमसन्दिग्धं प्राप्स्यथ । तत्र स्थान खनित्वा निधि गृहीत्वा व्याधुट्यताम् । तथानुष्ठिते तेषां गच्छतामेकतमस्य हस्ताद्वर्तिनिपपात । अथासौ यावत्तं प्रदेशं खनति तावत्तानमयी भूमिः । ततस्तेना- भिहितम्-'अहो, गृह्यतां स्वेच्छया ताम्रम् ।' अन्ये प्रोचुः- श्चतुरो मासान् स्वपितीति प्रसिद्धम् । पक्षे चतुरोऽपि मासान् योऽनुत्साहे न नयति तस्योत्साहशून्यजनपरिवृतस्य कथं नाम लक्ष्मीरक्षुण्णा तिष्ठेदिति सर्वदैवोत्साह- वता भाव्यमित्याशयः॥३३॥ परभागः विजयः, श्रेष्ठत्वं, गुणोत्कर्षश्च । तुला तुलाराशि, साहसं च । भास्वान्-सूर्य , तेजस्वी च । जलदपटलानि मेघजालानि ॥ ३४ ॥ विवरप्रवेश.-पातालप्रवेश । शाकिनीसाधनं यक्षिण्यादिसाधनं । श्मशान- सेवन वेताला दिसाधनाय श्मशानोपासनम् । महामासविक्रय =स्वशरीरवलिदान, स्वमासविक्रयः, परपुरुषमासविक्रयश्च । साधकवत्ति =अञ्जनगुटिकापाद- लेपादिरूपा ॥ ३५ ॥ बहव उपाया यस्मिन् कर्मणि तद्यथा स्यात्तथा बहूपाय-नानोपायै । 'बह्व- पाय'मिति पाठे नानाविधसिद्धिविघ्नजटिलमित्यर्थ । हिमालयदिशि-उत्तरस्या दिशि । निधानं भूमिस्थं धनं । व्याधुट्यतां परावर्त्यागम्यता । ('बावड़के आना' 'वापिस आना' )। तानमयी भूमि =ताम्रस्य खनि. । 'आसादितेति' १. 'बहूपायै रिति 'बह्वपाय'मिति वा गौडाः । २. 'हिमालयोत्तरदिशीति पा० । .