पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् ९

कानां लेखनाय लेखकानाञ्च वित्तं सञ्चितमास्ते। तत्सर्वथा कालोचित कार्यम्। ततो नापितोऽपि स्वगृहं गतः। तत्र च गत्वा खादिरमयं लगुडं सज्जीकृत्य कपाटयुगलं द्वारि समाधाय, सार्धप्रहरैक- समये भूयोऽपि विहारद्वारमाश्रित्य सर्वान्क्रमेण निष्कामतो गुरु- प्रार्थनया स्वगृहमानयत् । तेऽपि सर्वे कर्पट-वित्त-लोभेन भक्ति- युक्तानपि परिचितश्रावकान्परित्यज्य प्रहृष्टमनसस्तस्य पृष्ठतो ययुः । अथवा साध्विमुच्यते- एकाकी गृहसन्त्यक्तः पाणिपात्रो दिगम्बरः । सोऽपि संवाह्यते लोके, तृष्णायाः पश्य कौतुकम् ! ।।१५।। जीर्यन्ते जीर्यतः केशा, दन्ता जीर्यन्ति जीर्यतः । चक्षुःश्रोत्रे च जीर्येते , तृष्णैका तरुणायते ॥१६॥ अपरं-गृहमध्ये तान् प्रवेश्य द्वार निभृतं पिधाय लगुड- किन्तु । साम्प्रतम् इदानी। मया पुस्तकाच्छादनयोग्यानि वेष्टनार्हाणि । कर्प- टानिचीवराणि । प्रगुणीकृतानि-स्वगृहे सञ्चितानि, सज्जीकृतानि वा । लेख- काना=युष्मदर्थं पुस्तकलेखकाना। तेभ्यो भृतिरूपेण देयमिति यावत् । सञ्चितं. पृथक्कृत्य राशिभावेन स्थापितं । प्रभूततमन्धनमिति तत्त्वम् । तत्-तस्मात् । कालोचित समयोचितं । कार्य-विधेयम् । खादिरमयं-खादिरकाष्ठमयं । सुदृढम् । लगुडं-महान्तं दण्डम् । समाधाय% उद्घाट्य । जैनश्रावकाचार एषः । गमनावसरोचितत्वात् कपाटं पिधायेति वाऽर्थ कार्यः । यद्वा-कपाटयुगलं 'दृढं पिधानयोग्यं नवेति सुपरीक्ष्य, बन्धनयोग्य कृत्वेत्यर्थों बोध्य इति गौडाः । विहार. मठ । क्रमेण परिपाट्या । (नम्बरवार)। गुरुप्रार्थनया महता निर्बन्धेन । साधु-युक्तमेव । एकाकीति । सन्त्यक्तं गृहं येनासौ गृहसन्त्यक्त । आहिताग्न्यादेराकृतिगण- त्वान्निष्टान्तस्य परनिपातः । पाणि पात्रं यस्यासौ पाणिपात्र. दिगेवाम्बरं यस्यासौ दिगम्वरः। संवाह्यते आकृष्यते । कौतुकम्=आश्चर्यम् ॥ १५ ॥ जीर्यन्ते शुक्लीभवन्ति । जीर्यतः शनैर्वयोहानिमनुभवत. पुंसोऽपि। तरुणी- वाचरति तरुणायते-नवीभवति ॥ १६॥