पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ पञ्चतन्त्रम् [ ५ अपरीक्षित एवं संस्तुत्य ततः प्रधानक्षपणकमासाद्य क्षितिनिहितजानु- चरणः,-'नमोऽस्तु', 'वन्दे' इत्युच्चार्य लब्धधर्मवृद्धयाशीर्वादः- सुखमालिकानुग्रहलब्धव्रतादेश उत्तरीयनिबद्धग्रन्थिः सप्रश्रय. मिमाह-भगवन् ! यद्य विहरणक्रिया समस्तमुनिसमेतेना- स्मगृहे कर्तव्या ।' स आह-भोः श्रावक ! धर्मज्ञोऽपि किमेवं वदसि ?, किं वयं ब्राह्मणसमानाः, यत आमन्त्रणं करोषि ? । वयं सदैव तत्कालपरिचर्यया भ्रमन्तो भक्तिभाजं श्रावकमवलोक्य तस्य गृहे गच्छामः । तेन कृच्छ्रादभ्यर्थितास्तद्गृहे प्राणधारणमात्रा- मशनक्रियां कुर्मः। तद्गम्यताम् , नैवं भूयोऽपि वाच्यम् ।' तच्छ्रुत्वा नापित आह-भगवन् !, वेमि-अहं युष्मद्धर्मम् , परं भवतो बहवःश्रावका आह्वयन्ति । साम्प्रतं पुनः पुस्तकाच्छा- दनयोग्यानि कर्पटानि बहुमूल्यानि प्रगुणीकृतानि, तथा पुस्त- तद्भक्तो वा बौद्धः, सर्वज्ञो वा। जिनः अर्हन् । वःन्युष्मान् उपासकान् , रङ्गस्थान् सभासदो वा-पातु । प्रधानक्षपणका भिक्षुमुख्यः। जानुनी च चरणौ च जानु- चरणं, क्षितौ निहितं जानुचरणं येनासौ-क्षितिनिहितजानुचरणः भूतललग्नजानु- पादप्रान्तः। लब्धो-धर्मवृद्धराशीर्वादो येनासौ तथा। सुखमालिकया तन्म- तप्रसिद्धया सूत्रमय्या चामरयष्ट्या योऽनुग्रहस्तेन लब्ध प्राप्तो व्रतस्य आदेशः= उपदेशो येनासौ-सुखमालिकानुग्रहलब्धव्रतादेशः। उत्तरीयेण निबद्धो ग्रन्थि- येनासौ तथा गलावलम्बितदुकूलदत्तग्रन्थिः । विनीतवेष इति यावत् । सप्रश्रयं सविनयम् । विहरणक्रिया भोजनान्वेषणाय भिक्षूणां गमनं, भोजनं वा । मुनिः- भिक्षुः । सः भिक्षुमुख्यः । श्रावकः-जिनभक्तः । आमन्त्रण भोजनार्थं निमन्त्र- णम् । तत्कालपरिचर्यया भोजनकालोचितविहारेण । तेन श्रावकेण । कृच्छ्रात्= कष्टेन बहुशः। अभ्यर्थिताः प्रार्थिता.। तद्गृहे श्रावकभवने । प्राणधारणमात्रां= शरीरयात्रोचिताम् । अशनक्रियां भोजनं । भूयोऽपि पुनरपि । युष्मद्धर्मम्= भिक्षुसमाचारम्। भवतः युष्मान् । आह्वयन्ति भोजनाय प्रार्थयन्ते । पुनः= १ सुखमालिका स्वमनस्तोषाय प्रधानक्षपणकेन धारिता सुमनोमाला इति वा । 'शुष्कमालिकेति 'पुष्पमालिकात्यागलब्धेति च पाठान्तरम्।