पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ] * अभिनवराजलक्ष्मीविराजितम् * गत्वा, वक्रद्वारन्यस्तोत्तरीयाञ्चलस्तारस्वरेणेमं श्लोकमपठत्- जयन्ति ते जिना येषां केवलज्ञानशालिनाम् । आ जन्मनः स्मरोत्पत्तौ मानसेनोपरायितम् ॥ १२ ॥ अन्यच्च- सा जिह्वा या जिनं स्तौति, तच्चित्तं यजिने रतम् । तावेव च करौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ।। १३ ॥ तथाच- 'ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षु' क्षणं पश्याऽनङ्गशरातुरं जनमिम, त्रातापि नो रक्षसि ! मिथ्याकारुणिकोऽसि निघृणतरस्त्वत्तः कुतोऽन्य. पुमान्' सेयॆ मारवधूभिरित्यभिहितो बौद्धो जिन' पातु वः॥१४॥ सन्मानप्रदर्शनरीतिरद्यापि जागर्ति । जीवहिसाभयेन च ते क्षपणका मुखे चेला- ञ्चलं दधतीत्यपि प्रसिद्धमेव । तारस्वरेण उन्चस्वरेण । इमं वक्ष्यमाणम् । 'सर्वथाऽऽवरणविलये चेतनस्वरूपाविर्भाव.-केवलम्' इति हेमचन्द्र । तादृशनिर्मलज्ञानेन शालन्ते शोभन्ते तच्छीलानाम् । आजन्मन =जन्मत आरभ्य । स्मरोत्पत्तौ कामवासनारूपाङ्कुरोत्पत्तौ। ऊपरइवाचरितम् ऊषरायितम्। 'स्यादूषः क्षारमृत्तिका' इत्यमर । (ऊषर. बीजाङ्कुरोत्पत्त्यनहीं भू । ) काम- कल्मषलेशशून्यमनस इति यावत् ॥ १२॥ तस्य जिनस्य । पूजा कुरुतस्तच्छीलौ-तत्पूजाकरौ । करौ हस्तौ ॥१३॥ ध्यानेति । ध्यानस्य व्याज =छलम्। उपेत्य आश्रित्य । कां स्वमनोहरा- वामलोचना, चिन्तयसि ? । अस्माननादृत्येति शेष । क्षणं =क्षणमात्र । चक्षु = लोचनम् । उन्मील्य-उद्धाट्य । अनङ्गशरातुरं-कामवाणाहतम् । इमं जनम् = अस्मान् पश्य । त्राता रक्षकोऽपि त्वं, नो = नैव । यतो न रक्षसि । अत - मिथ्यैव कारुणिक =दयालु. । किन्तु दयालुभूमिकाप्रतिच्छन्नो निघृणतर.=निर्दय- शिरोमणि । कुतः=कुत्र । इति इत्थम् । ईjया सहितं यथा स्यात्तथा-सेप्यं मारवधूभि कामकदर्थिताभिरप्सरोभि.। बुद्धसमाधिभङ्गाय समागताभि काम- सेनासमवेताभिरप्सरोभिरिति वा । अभिहित =अधिक्षिप्त । बुद्ध एव वौद्ध - १ 'पल्लव' । २ ते जयन्ति' । ३ 'मनोमवाभिधे वीजे मानसेनोपरायितम्' । पा० -- -