पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[४ लव्ध- वस्त्रयुगलं चाऽऽदाय यथाचिन्तितविपयं गतः। साऽपि कण्ठ- निवेशितहस्तयुगला सोद्वेगा नदीपुलिनदेशे उपविष्टा यावत्ति- ठति, तावदेतस्मिन्नन्तरे काचिच्छृगालिका मांसपिण्डगृहीत. वदना तत्राऽऽजगाम । आगत्य च यावत्पश्यति, तावन्नदीतीरे महान्मत्स्यः सलिलान्निष्क्रम्य बहिः स्थित आस्ते । एनञ्च दृष्ट्वा -मांसपिण्डं समुत्सृज्य तं मत्स्यं प्रत्युपाद्रवत् । अत्रान्तरे आका- शादावतीर्य कोऽपि गृध्रस्तं मांसपिण्डमादाय पुनः खमुत्पपात । मत्स्योपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिका व्यर्थश्रमा गृध्रमवलोकयन्ती तया नग्निकया सस्मितमभिहिता- 'गृध्रेणाऽपहृतं मांसं मस्योऽपि सलिलं गतः । मत्स्यमांसपरिभ्रष्टे ! किं निरीक्षसि जम्बुकि !' ।। ६० ॥ तच्छुत्वा शृगालिका तामपि पतिधनजारपरिभ्रष्टां दृष्ट्वा सोपहासमाह- 'यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव । नाऽभूज्जारो न भर्ता च 'कि निरीक्षेसि नग्निके ?' ॥६॥ एवं तस्य कथयतः पुनरन्येन जलचरेणाऽऽगत्य निवेदितं, यत्-'अहो ! त्वदीयं गृहमप्यपरेण महामकरण गृहीतम् ।' तच्छ्रुत्वाऽसावतिदुःखितमनास्त गृहान्निःसारितुमुपायं चिन्तयन्नुवाच-'अहो ! पश्यत मे देवोपहतत्वम् ।- 'मित्रं ह्यमित्रतां यातमपरं मे प्रिया मृता । गृहमन्येन च व्याप्तं किमद्यापि भविष्यति ? ।। ६२ ।। - धानवस्त्रादिप्रदाने कृते । यथाचिन्तितविषयं-स्वाभिलपितं देशम् । कण्ठनिवेशित. हस्तयुगला स्तनयुगलपिधानार्थ कृतस्वस्तिकाकारहस्ता। नदीपुलिनदेशे-नदी- कूले। 'तोयोत्थितं तत्पुलिन'मित्यमर । मांसपिण्डं गृहीतं वदने यया सा- मासपिण्डगृहीतवदना। गृहीतमांसपिण्डिके ति तु लिखितपुस्तके पाठ । उपाद्र- चत्-प्रत्युजगाम । तस्य मकरस्य । देवोपहतत्वं दुरदृष्टकदर्थितत्वम् । क्षते= १. 'जले तिष्ठसि नग्निके' इति लिखिते पाठ । २ 'दैवहतकत्वम् ॥३. चाक्रान्त'। पा०।