पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[ ४ लब्ध- मे ललाट एवं विकरालतां गतः। तदाकर्ण्य राजा सवोडमाह- 'अहो ! वञ्चितोऽहं राजपुत्रानुकारिणाऽनेन कुलालेन, तबीयता द्रागेतस्य चन्द्रार्धः।' तथानुष्ठिते कुम्भकार आह-'देव! मैवं कुरु, पश्य मे रणे हस्तलाघवम्।' राजा प्राह-भोः ! सर्वगुणसम्पन्नो भवान्, तथापि गम्य- ताम् । उक्तश्च- शरश्च कृतविद्यश्च दर्शनीयोऽसि पुत्रक ! यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥ ३९ ॥ कुलाल आइ-'कथमैवत् ?' । राजा कथयति- ४. सिंहशृगालपुत्रकथा कस्मिश्चिदुद्देशे सिंहदम्पती प्रतिवसतः स्म । अथ सिंही पुत्रद्वयमजीजनत्। सिंहोऽपि नित्यमेव मृगान्व्यापाद्य सिंही ददाति । अथान्यस्मिन्नहनि तेन किमपि नासादितम् , वने भ्रम- तोऽपि तस्य रविरस्तं गतः। अथ तेन स्वगृहमागच्छता शृगालशिशुः प्राप्तः । स च 'वालकोऽय'मित्यवधार्य यत्नेन दंष्ट्रा- मध्यगतं कृत्वा सिंधै जीवन्तमेव समर्पितवान्। ततः सिंह्याऽभि- हितम्-'भोः कान्त ! त्वयाऽऽनीतं किञ्चिदस्माकं भोजनम् ?' । सिंह आह-'प्रिये ! मयाद्यैनं शृगालशिशुं परित्यज्य न किचि- त्सत्त्वमासादितम् , स च मया 'बालोऽयमिति मत्वा न ब्यापा- दितो, विशेषात्स्वजातीयश्च । उक्तञ्च- स्त्रीविप्रलिङ्गिबालेषु प्रहर्तव्यं न कहिंचित् । प्राणात्ययेऽपि सञ्जाते विश्वस्तेषु विशेषतः ।। ४० ।। प्रहारविकार: वणः । 'कर्परप्रहारोऽयं में' इति लिखितपुस्तकपाठो युक्ततरः । चन्द्रार्धः अर्धचन्द्रम् । ( गर्दनिया, धक्का )। 'मा मैव कुरु' इति पाठान्तरम् । अजीजनत् जनयामास । स च-सिहश्च । स्वजातीयः-मांसाशी,नखायुधश्च । लिङ्गिना ब्रह्मचारिपरिव्राजकादयः । अत्ययः नाशः। विश्वस्तेषु-विश्वास- १ अर्धचन्द्रः'। पा०।२'शूरोऽसि कृतविद्योऽसि । पा०