पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[४ लधे- तत्र गच्छावः।' गङ्गदत्त आह-भोः प्रियदर्शन! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानश्च दर्शयिष्यामि। परं त्वयाऽ. स्मत्परिजनो रक्षणीयः, केवलं यानहं तव दर्शयिष्यामि त एव भक्षणीयाः'-इति । सर्प आह-'साम्प्रतं त्वं मे मित्रं जात, तर अतव्यं, तव वचनेन भक्षणीयास्ते दायादाः। एवमुक्त्वा बिला- निष्क्रम्य तमालिङ्गय च तेनैव सह प्रस्थितः। अथ कृपमासाद्याऽरघट्टघटिकामार्गेण सर्पस्तेन सह तस्याः लयं गतः। ततश्च गङ्गदत्तेन कृष्णसर्प कोटरे धृत्वा दर्शितास्ते दायादाः । ते च तेन शनैः शनैर्भक्षिताः। अथ मण्डूकाऽभावे सर्पणाभिहितम् ,-भद्र ! निःशेषितास्ते रिपवः, तत्प्रयच्छाऽन्यन्मे किञ्चिद्भोजनं, यतोऽहं त्वयाऽ- त्राऽनीतः। गङ्गदत्त आह-'भद्र ! कृतं त्वया मित्रकृत्यं, तत्साम्प्रतमने- नैव घटिकायन्त्रमार्गेण गम्यताम्'--इति । सर्प आह-'भो गङ्ग- दत्त ! न सम्यगभिहितं त्वया,-कथमहं तत्र गच्छामि । मदीयविलदुर्गमन्येन रुद्धं भविष्यति, तस्मादत्रस्थस्य मे मण्डूक मेकैकं स्ववर्गीयमपि प्रयच्छ, नो चेत्सर्वानपि भक्षयिच्यामि'इति। तच्छुत्वा गङ्गदत्तो व्यचिन्तयत्-'अहो ! किमेतन्मया कृतं सर्पमानयता। तद्यदि निषेधयिष्यामि तत्सर्वानपि अक्षयिष्यति । अथवा युक्तमुच्यते- योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः । स करोति न सन्देहः-स्वयं हि विषभक्षणम् ।। २५ ।। तत्प्रयच्छाम्यस्यैकैकं प्रतिदिनं सुहृदम् । परिजनः बन्धुबान्धवानुचरादिसमूह । साम्प्रतम् इदानीम्। मित्रं-सुहृत् , 'मित्रत्वमुपागत' इति लिखितपुस्तकपाठ । रिपव =दायादाः। प्रयच्छ देहि, तत्र-बिले । स्ववर्गीय-स्वजनम् । य इति । आत्मनो वीर्यतोऽधिकममित्रं मित्रं १. मित्रत्वमुपागतः पा०। २. 'तेनात्मना सह स्वालयं नोतः' इत्यपि पाठः ।