पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४

  • पञ्चतन्त्रम्

[४ लब्ध- व्यथाकरं सुखार्थाय कण्टकेनेव कण्टकम् ॥ १९ ॥ एवं स विभाव्य बिलद्वारं गत्वा तमाहूतवान्-'पोहि प्रियः दर्शन ! एहि ।' तच्छुत्वा सर्पश्चिन्तयामास-'य एष मामाह्वयति स स्वजातीयो न भवति, यतो नैषा सर्पवाणी। अन्येन केनापि सह मम मर्त्यलोके सन्धानं नास्ति । तदत्रैव दुर्गे स्थितस्ताव- द्वेझि-कोऽयं भविष्यति ? । उक्तञ्च- 'यस्य न ज्ञायते शीलं न कुलं न च संश्रयः । न तेन सङ्गतिं कुर्या'दित्युवाच बृहस्पतिः ॥२०॥ कदाचित्कोऽपि मन्त्रवाद्योषधिचतुरो वा मामाहूय बन्धने क्षिपति । अथवा कश्चित्पुरुषो वैरमाश्रित्य कस्यचिद्भक्षणार्थे मामाह्वयति ।' आह च-'भोः! को भवान् ?'। स आह--'अहं गङ्गदत्तो नाम मण्डूकाधिपतिस्त्वत्सकाशे मैत्र्यर्थमभ्यागतः। तच्छ्रुत्वा सर्प आह-भोः ! अश्रद्धयमेतद्यत्-तृणानां वह्निना सह सङ्गमः। उक्त-च- यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन । न तत्समीपमभ्येति, तत्किमेवं प्रजल्पसि ! ॥२१॥ गङ्गदत्त आह-भोः ! सत्यमेतत् , स्वभाववैरी त्वमस्माकं, परं परपरिभवात्प्राप्तोऽहं ते सकाशम् । उक्तञ्च- सर्वनाशे च सञ्जाते प्राणानामपि संशये । अतिशत्रु प्रणम्यापि रक्षेत्प्राणान्धनानि च ॥२२॥ घटीनां माला श्रेणी ताम् । स्वकार्याय-तत्साधनाय । तत्क्षये शत्रुविनाशे। पीडा-कष्टम् । प्रयासः । सुखार्थाय-स्वसुखाय । ( कण्टक-काँटा ) ॥ १९ ॥ सन्धान परिचय', स्नेहो वा । दुर्ग-बिले। तावत्-प्रथमम् । संश्रयः- देशः। सङ्गति मैत्री, कथां वा ॥२०॥ मन्त्रवादी तान्त्रिकः । ओषविचतुरः- रसायनवित् । 'औषधेति पाठान्तरम् । वन्धने = पेटकादौ। वैरमाश्रित्य- शत्रूणां वैरमनुस्मरन् । वध्यः भक्ष्यः । एवं मित्रताप्रार्थनावाक्यम् ॥२१॥ १ अपि शत्रु प्रणम्योच्चै'रिति लिखितपुस्तकपाठ । 1