पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम्

[४ लब्ध- मात्रेणापि करोषि! । तत्ते प्रायश्चित्तमपि नास्ति । उक्तञ्च-- ब्रह्मध्ने च सुरापे च चौरे भग्नवते शटे । निष्कृतिविहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥११।। तत्त्वं मम देवरं गृहीत्वाऽद्य प्रत्युपकारार्थ गृहमानय । नो चेत्त्वया सह मे परलोके दर्शनम्-'इति । तदहं तयैवं प्रोक्तस्तव सकाशमागतः। तदद्य तया सह त्वदर्थे कलहायमानस्य ममे- यती बेला विलग्ना । तदागच्छ मे गृहं,-तव भ्रातृपत्नी रचित- चतुष्का प्रगुणितवस्त्रमणिमाणिक्याधुचिताभरणाद्वारदेशबद्ध- वन्दनमाला सोत्कण्ठा तिष्ठति ।' मर्कट आह-'भो मित्र ! युक्त नभिहितं मद्भातृपत्न्या । उक्तञ्च- वर्जयेत्कौलिकाकारं मित्रं प्राज्ञतरो नरः । आत्मनः संमुख नित्यं य आकर्षति लोलुपः ॥१२॥ तथा च- ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुले भोजयते चैव षड्विधं प्रीतिलक्षणम् ।।१३।। परं वयं वनचराः, युष्मदीयं च जलान्ते गृहं, तत्कर्थ शक्यते तत्र गन्तुम् ? | तस्मात्तामपि मे भ्रातृपत्नीमत्रानय-येन प्रणम्य तस्या आशीर्वादं गृह्णामि'। स आह-'भो मित्र ! अस्ति जायया मत्पन्या। ('भौजाई')। भग्नवते त्यक्तनियमे। शठे-खले। निष्कृतिः- प्रायश्चित्तं। देवर-पतिलधुभ्रातरं वानरं । परलोके दर्शनं मरिष्याम्यद्यैवाहम् । कलहंकुर्वत. कलहायमानस्य। इयती एतावती। वेला समयः। रचितचतुष्का- विरचितगृहप्राङ्गणरेखामण्डला । ('मङ्गल चौक पूर कर') । प्रगुणितानि-सज्जी- कृतानि-धारितानि च वस्त्रमणिमाणिक्यादीनामुचितानियोग्यानि, आभरणानि ययासा तथा मणिमाणिक्यवस्त्रादियोग्यभूपणभूषितदेहा। अन्यथाऽस्य व्याख्या- नन्तु नामनुरूपमेवेति गौडाः । द्वारदेशे वद्धा वन्दनमाला यया सा तथा पुष्प- पल्लवा द्यलङ्कततोरणप्रदेशा। सोत्कण्ठा उत्कण्ठाकुलिता। कौलिकः तन्तुवाय । स हि पटनिर्माणसमये पट निष्पद्यमानं गनै. शनैराकर्षति । मित्रपक्षे च-धनादिक-