पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२

  • पञ्चतन्त्रम् *

[ ३ काको- तदद्य जितारेमद्विभोर्यथापूर्व निद्रालाभो भविष्यति । उच्यते चैतत्- निःसर्प हतसर्प वा भवने सुप्यते सुखम् । दृष्टनष्टभुजङ्गे तु निद्रा दुःखेन लभ्यते ॥ २४७ ॥ तथाच- विस्तीर्णव्यवसायसाध्यमहतां स्निग्धोपयुक्ताशिपां कार्याणां नयसाहसोन्नतिमतामिच्छापदारोहिणाम् । मानोत्सेकपराक्रमव्यसनिनः पारं न यावद्गताः साम हृदयेऽवकाशविषया तावत्कथं निर्वृतिः ॥२४८) तवसितकार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तदिदम- धुना निहतकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रादिक्रमेणा- उचलच्छवासनश्रीश्चिरं भुक्ष्व । प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः । मद्विभोः अस्मदीयस्य महाराजस्य भवतः। 'हतस' इत्यत्र 'बद्धसर्प' इति मुद्रित पाठ. । सुखमिति क्रियाविशेषणम् । दृष्टनष्टे पूर्व दृष्टे पश्चात्पलायिते तु निद्रां न लभते नरः। 'सदा दृष्टभुजङ्गे तु निद्रा दुःखेन लभ्यते' इति तु मुद्रितः पाठः ॥ २४७ ॥ विस्तीर्णव्यवसायसाध्यानामत एव महता श्रेष्टानाम् । स्निग्धै =गुरुजनैः ।, प्रयुक्ता 'विजयस्व' 'राज्यं लभस्वे' त्यादय आशिषो येपा तेपाम् । किञ्च- नयसाहसोन्नतिमता-मन्त्रसाहसौन्नत्यसाध्यानाम् । इच्छापदारोहिणाम् मनोरथ- विषयीभूताना-कार्याणां-राज्यविजयादीना मानोत्सेकपराक्रमव्यसनिन =मानोन्न- तिपराक्रमैक्रप्रवणा मनस्विनः। यावत्पारं-सिद्धि न गतास्तावत्-हृदये चित्ते सामर्षे कार्यचिन्ताव्यग्रे-अवकाशविषया अवकाशसमयोचिता, निर्वृति =गान्तिः, कथं न कथमपि भवतीत्यर्थः। 'विस्तीर्णव्यवसायसारमहताम् ' इति सुन्दर पाठ. ॥ २४८ ॥ अवसितकार्यारम्भस्य-सफलोद्योगस्य । निहतकण्टकं शान्तोपन्वम् । अचलं अचलच्छवासनश्रीरत्व राज्य मुड्क्ष्वेत्यन्वयः ।