पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१०

  • पञ्चतन्त्रम् *

[३ काको- + ऋणशेषं चाऽग्निशेषं शत्रुशेषं तथैव च । व्याधिशेषञ्च निःशेषं कृत्वा प्राज्ञो न सीदति ।। २४०॥ सोऽब्रवीत्-'देव ! भाग्यवांस्त्वमेवासि, यस्याऽऽरब्धं सर्व मेव संसिध्यति । तन्न केवलं शौर्य कृत्यं साधयति, किन्तु प्रज्ञया यत्क्रियते तदेव विजयाय भवति । उक्तञ्च यतः- शस्त्रैर्हता न हि हता रिपवो भवन्ति प्रज्ञाहतास्तु रिपवः सुहता भवन्ति । शस्त्रं निहन्ति पुरुषस्य शरीरमेकं प्रज्ञा कुलञ्च विभवञ्च यशश्च हन्ति ॥ २४१ ।। तदेवं प्रज्ञापुरुषकाराभ्यां युक्तस्याऽयत्नेन कार्यसिद्धयः सम्भवन्ति । उक्तञ्च- प्रसरति मतिः कार्यारम्भे, दृढीभवति स्मृतिः, स्वयमुपनमन्त्यर्था, मन्त्रो न गच्छति विप्लवम् । स्फुरति सफलस्तर्कश्चित्तं समुन्नतिमश्नुते भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥२४२।। तथा च नयत्यागशौर्यसम्पन्ने पुरुषे राज्यमिति ! उक्तञ्च- त्यागिनि शूरे विदुषि च संसर्गरुचिर्जनो गुणी भवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥२४३॥ चोत्तमजना ने ति क्वचित्पाठ ॥ २३९ ॥ सीदति-दु खमनुभवति ॥ २४० ॥ प्रज्ञया वुद्धया। प्रज्ञाहता: नीतिप्रयोगनाशिता.। प्रज्ञा परिकृता बुद्धि ॥२४१॥ पुरुषकार:=पराक्रमः । अयत्नेन-अनायासेन । प्रसरति-त्वरितं चलति । अर्था मनोरथ : । उपनमन्ति-फलन्ति । सिध्यन्ति च । मन्त्र.-मन्त्रितम् । विप्लवं-प्रकाशम्। तर्कः ऊहः । समुन्नतिम् औन्नत्यम् । अश्नुते व्याप्नोति । रति.= अनुरागः । भविष्यत'-शुभोदर्कस्य ( जिसकी आगे उन्नति होने वाली होती है उसकी ) ॥ २४२ ।। नयः सुमन्त्रः, नीतिश्च । संसर्गरुचि =सङ्गतिपर । धनं-भवतीतिशेष । १. 'पुन पुन. प्रवर्तेन तस्माच्छेप न कारयेदिति लिखिते पुम्नके पाठ.।