पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

.. तहहायामायातस्य ते हतशत्रोः सर्वे सविस्तरं निर्व्याकुल- तया कथयिष्यामि।' अथासौ तद्वचनमाकर्ण्य सपरिजन एकैका ज्वलन्तीवनकाष्ठिकांचञ्च्वग्रेण गृहीत्वा तद्गुहाद्वारं प्राप्य स्थिर- जीविकुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्षवाक्यानि स्मरन्तो द्वारस्याऽऽवृतत्वादनिःसरन्तो गुहामध्ये कुम्भी- पाकन्यायमापन्ना ,मृताश्च । एवं शत्रून्निःशेषतां नीत्वा भूयोऽपि मेघवर्णस्तदेव न्यग्रोधपादपदुर्ग जगाम । ततः सिंहासनस्थो भूत्वा सभामध्ये प्रमुदितमनाः स्थिरजीविनमपृच्छत्-'तात ! कथं त्वया शत्रुमध्ये गतेनैतावत्पर्यन्तं कालो नीतः १ तदत्र कौतुकमस्माके वर्तते, तत्कथ्यताम् । यतः- वरमग्नौ प्रदीप्ते तु प्रपातः पुण्यकर्मणाम् (१) । न चाऽरिजनसंसर्गो मुहूर्तमपि सेवित ॥२२० । तदाकर्ण्य स्थिरजीव्याह-'भद्र ! आगामिफलवाञ्छया कष्टमपि सेवको न जानाति । उक्तञ्च यतः- उपनतभयैर्यो यो मार्गो हितार्थकरो भवे- त्स स निपुणया बुद्धया सेव्यो महान्कृपणोऽपि वा। करिकरनिभौ ज्याघाताकौ महाऽस्त्रविशारदौ रेचितवलयैः स्त्रीवद्वद्धौ करौ हि किरीटिना ॥ २२१ ॥ हतशत्रोः नाशितरिपो । निर्व्याकुलतया निश्चिन्तो भूत्वा । रक्ताक्षवाक्यानि% स्वमन्त्रिवाक्यानि । आवृतत्वात=पिहितत्वात् । कुम्भीपाकन्यायं-पुटपाकन्यायम्। आपन्ना =प्राप्ताः । नि.शेपता-निर्मलताम् । कौतुकम् आश्चर्यम् । प्रपात %D पतनम् । पुण्यकर्मणा=महात्मनाम् । (१)। न च नैव वरम्, न मनागपि श्रेष्ठम् ॥ २२०॥ 'भागामिनः-फलस्य वाग्छया इच्छया। सेवक =मृत्यः । उपनतं-प्राप्त भयं यान्-ते-उपनतभयाः, तै =विपत्तिजालपतितै। हितार्थकरः स्वहितार्थसाधक निपुणया विवेकशालिन्या। महान् श्रेष्ठ । कृपणः निकृष्ट । करिकरनिभौ= १. 'वलयरणिती स्त्रीव हूँ कृतौ न किरोटिना-इति पाठान्तर, तत्र-न कृताविति काकुः । कृतावेवेत्यर्थ.।