पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ पञ्चतन्त्रम् * . [३ काको ते प्रोचुः-'कथमेतत् ? । रक्ताक्षः कथयति- १४ सिंह-जम्बुक-गुहाकथा कस्मिश्चिद्वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म । स कदाचिदितश्चेतश्च परिभ्रमन्क्षुत्क्षामकण्ठो न किञ्चिदपि सत्त्व- माससाद । ततश्चास्तमनसमये महती गिरिगुहामासाद्य प्रवि-- टश्चिन्तयामास-'नूनमेतस्यां गुहायां रात्रौ केनापि सत्वेनाग. न्तव्यं-तन्निभृतो भूत्वा तिष्ठामि ।' एतस्मिन्नन्तरे तत्स्वामी दधि-- पुच्छो नाम शृगालः समायातः। स च यावत्पश्यति,-ताव- सिहपदपद्धतिर्गुहायां प्रविष्टा, न च निष्क्रमणं गता। ततश्चाऽचिन्तयत्-'अहो ! विनष्टोऽस्मि । नूनमस्यामन्त- गतेन सिंहेन भाव्यम । तत्कि करोमि ? कथं ज्ञास्यामि ?'1 एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धः-'अहो बिल!-इत्युक्त्वा तूष्णीं भूय भूयोऽपि तथैव प्रत्यभाषत-'भोः ! किं न स्मरसि । यन्मया त्वया सह समयः कृतोऽस्ति-यन्मया वाह्यात्समागतेन त्वं वक्तव्यः, त्वया चाहमाकारणीयः' इति । तद्यदि मां नाह्वयसि ततोऽह द्वितीयं विलं यास्यामि ।' अथ तच्छ्रुत्वा सिंहश्चिन्तितवान्-'नून- मेषा गुहाऽस्यः समागतस्य - सदा समाह्वानः करोति, परमद्यः मद्भयान्न किञ्चिद्रूते । अथवा साध्विमुच्यते- भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः । प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत् ।। २१३ ।। कार्य पूर्वमेव विचार्य य करोति स शोभते, यथा-शृगालः । यश्चाऽविचार्य कार्य करोति स शोच्यते, यथा-सिह । यद्वा-अनागतम् अप्रवेशम् । क्षुत्क्षामकण्ठः=बुभुक्षा- कुलित. । सत्त्वं = जन्तुम् । आँससाद =प्राप । नूनम् = अवश्यम् । तत्स्वामी गुहानिवासी । सिहपदपद्धति. = सिहपदचिह्नपक्ति '। 'अस्या = गुहायाम् । फूत्कर्तु = सकोलाहलं गदितुम् । ( चिल्लाने लगा) । समयः = सङ्केत । न वाणी । न च वाणी सम्प्रवर्तते । वेपथु =कम्प. ॥ २१३ ॥ - -1 । १ कर्तरि क्त. । आरब्धवानित्यर्थ ।