पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

S २९४ .

  • पञ्चतन्त्रम् *

[३ काको- . - भास्करः प्राह-'अस्ति मत्तोऽप्यधिको मेघो येनाच्छादितोऽ- हसदृश्यो भवामि ।' अथ मुनिना मेघमप्याहूय कन्याभिहिता- 'पुत्रिके ! किमस्मै त्वां प्रयच्छामि ?।' सा प्राह-कृष्णवर्णोऽयं जडात्मा च । तस्मादन्यस्य प्रधानस्य कस्यचिन्मां प्रयच्छ ।' अथ मुनिना मेघोऽपि पृष्टः-'भो मेघ ! त्वत्तोऽप्यधिकोऽस्ति कश्चित? । मेधेनोक्तं,-'मत्तोऽपि अधिकोऽस्ति वायुः। [यतो वायु. नाऽऽहतोऽहं सहस्रधा यामि ।' तच्छ्रुत्वा मुनिना वायुराहूतः,- आह च-पुत्रिके ! किमेष वायुस्ते विवाहायोत्तम प्रतिभाति ?। साऽब्रवीत्-'तात ! अतिचपलोऽयं, तदस्मादप्यधिकः कश्चि- दानीयताम् ।' सुनिराह-वायो ! त्वत्तोऽप्यधिकोऽस्ति कश्चित् ?' । पवने- नोक्तम्-मत्तोऽप्यधिकोऽस्ति पर्वतः, तेन. संस्तस्य वलवानप्यह ध्रिये। अथ सुनिः पर्वतमाहूय कन्यामुवाच-पुत्रिके ! कि त्वामस्मै प्रयच्छामि ?' | साप्राह-'तात ! कठिनात्मकोऽयं स्तब्धश्च, तद न्यस्मै देहि माम् ।' मुनिना पर्वतः पृष्टः-'भोः पर्वतराज ! त्वत्तों ऽप्यधिकोऽस्ति कश्चित् ?' | गिरिणोक्तम्-'मत्तोऽप्यधिकाः सन्ति मूषिका ये मच्छरोरं बलाद्विदारयन्ति ।' ततो मुनिर्मूषिकमाय -तस्या अदर्शयत्-आह च-'पुत्रिके त्वामस्मै प्रयच्छामि?' किमेप प्रतिभाति ते मूपिकराजः ?' । साऽपि तं दृष्टा 'स्वजातीय एष' इति-मन्यमाना पुलकोद्धषितशरीरा उवाच-तात ! मां मूषिकां कृत्वाऽस्मै प्रयच्छ-येन स्वजातिविहितं गृहिणीधर्ममनुतिष्ठामि।' अदृश्य:- निलीन. । अस्मै = मेघाय । 'प्रयच्छामि'--किमिति प्रश्न । जडात्मा-जलवहुल , मूर्खश्च । डलयोरैक्यात्-जडात्मा जलात्मा। प्रधान- स्य श्रेष्ठस्य । सहस्रधा यामि विच्छिन्नो भवामि । प्रतिभाति रोचते । संस्तभ्य- गृहीत्वा, (जवरदस्ती पकड़ कर)। ध्रिये अवगृह्ये। (रोक लिया जाता हूँ) । कठिनात्मका शिलाशकलकर्कश । स्तब्धः अविनीतः। विदारयन्ति खण्ड- यन्ति । प्रतिभाति रोचते । पुलकोद्भुषितशरीरा=रोमाञ्चितदेहा । प्रयच्छ देहि ।