पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२९३ अविवाह्या तु सा कन्या जघन्या वृपलीमता ।। २०६॥ श्रेष्ठेभ्यः सहशेभ्यश्च जघन्येभ्यो रजस्वला । पित्रा देया विनिश्चित्य यतो दोपो न विद्यते ।। २०७॥ अतोऽहमेनां सदृशाय प्रयच्छामि, नान्यस्मै । उक्तञ्च- ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोविवाहः सख्यञ्च न तु पुष्टविपुष्टयोः ।। २०८ ।। तथा च-कुलश्च शीलञ्च सनाथता च विद्यां च वित्तञ्च वपुर्वयश्च। एतान्गुणान्सप्तविचिन्त्य देया कन्या बुधै , शेषमचिन्तनीयम् २०९ तद्यद्यस्या रोचते तदा भगवन्तमादित्यमाय तस्मै प्रय- च्छामि । सा प्राह-'इह को दोप: १ क्रियतामेतत् ।' अथ मुनिना रविराहूतः । वेदमन्त्रामन्त्रणप्रभावात्तत्क्षणादेवाभ्युपगम्यादित्यः प्रोवाच-भगवन् ! किमहमाहूतः ? । सोऽब्रवीत्-'एषा मदीया कन्यका तिष्ठति-यद्येषा त्वां वृणोति त द्वहस्थ'- इति । एवमुक्त्वा स्वदुहितरमुवाच-'पुत्रि ! किन्तव रोचते एष भग- वाँस्त्रैलोक्यदीपको भानुः ?' । पुत्रिकाऽब्रवीत्-'तात ! अतिदह- नात्मकोऽयं, नाहमेनमभिलषामि ।-तदस्मादन्यः प्रकृष्टतरः कश्चि- दाहयताम् ।' अथ तस्यास्तद्वचनं श्रुत्वा मुनिर्भास्करमुवाच- 'भगवन् । त्वत्तोऽप्यधिकोऽस्ति कश्चित् ? । पितृवेश्मनि = पितृगृहे । असस्कृता = अविवाहिता। अविवाह्या विवाहा- ऽयोग्या । जघन्या = निन्दिता । 'वृषली ति सञ्ज्ञा ॥ २०६ ॥ श्रेष्ठसमानाऽ. धमेभ्यो यथालाभमृतुमती-कन्या देया, नात्र विचार कार्यः ॥ २०७ ॥ एनां= कन्याम् । पुष्टविपुष्टयो - हीनबलाधिकवलयो ॥२०८॥ शील= विनयादिकम् । सनाथता = स्थिर आश्रयः । वपु = शरीरं । वय = अवस्था । शेपम्-इतोऽ. धिकंभावि शुभाशुभम् । भचिन्तनीयमिति । दैवायत्तत्वात्तस्येति भाव ॥२०९॥ अस्या = कन्यायाः। रोचते-प्रतिभाति । वेदमन्त्रैर्यदामन्त्रणम् = आह्वानं । तत्प्रभावात् = तत्सामर्थ्यात् । कि-किमर्थम् ? । वृणोति-स्वीकरोति । उद्वहस्व- विवाहं कुरु । 'भगवान् सकलज्ञानशक्तिनिधि. । त्रैलोक्यस्य दीपक = प्रकाशक । अतिदहनात्मकः-अत्यन्त दाहक.-उष्णतर । प्रकृष्टतर = श्रेष्ठ ।