पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२

  • पञ्चतन्त्रम् *.

[ ३ काको- स्त्रियः पूर्व सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः । भुञ्जते मानुपाः पश्चात्तस्माद्दोषो न विद्यते ॥ १९९॥ सोमस्तासांददौ शौचंगन्धर्वाः शिक्षितां गिरम् । पावकः सर्वमेध्यत्वं तस्मानिष्कल्मषाः स्त्रियः ॥ २० ॥ असम्प्राप्तरजा गौरी, प्राप्त रजसि रोहिणी। अव्यञ्जना भवेत्कन्या, कुचहीना च नग्निका ॥ २०१ ।। व्यञ्जनैस्तु समुत्पन्नैः सोमो भुङ्क्ते हि कन्यकाम् । पयोधराभ्यां गन्धर्वा रजस्यग्निः प्रतिष्ठितः ॥ २०२॥ तस्माद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत् । विवाहश्चाऽष्टवर्षायाः कन्यायास्तु प्रशस्यते ।। २०३ ।। व्यञ्जनं हन्ति वै पूर्व, परं चैव पयोधरौ। रतिरिष्टांस्तथा लोकान्हन्याच पितरं रजः ।। २०४ ॥ ऋतुमत्यां तु तिष्ठन्त्यां स्वेच्छादानं विधीयते । तस्मादुद्वाहयेन्नम्नां मनुः स्वायम्भुवोऽब्रवीत् ।। २०५ ।। पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता। सजने-जाता । अतिक्रमः उल्लङ्घनम् । असौ = याज्ञवल्क्यः। साधु = शोभनम् । ( ठीक कहा ) । स्त्रियः कन्याः। सुरै =सोमगन्धर्ववह्निभिर्देवै । भुञ्जते सेवते । दोषः= स्त्रीषु पापम् ॥ १९९ ॥ तासां-स्त्रीभ्यः । शौचं = शुद्धि । शिक्षिता = मनोहरां, निपुणाञ्च । सर्वमेध्यत्वं सर्वाङ्गेषु पवित्रताम्। कल्मषं-पापम् ॥२०॥ व्यञ्जनैः = स्तनकेशादिभिरुपलक्षिताम् । व्यञ्जनं लाञ्छनश्मश्रुतेमनावयवेष्वपी'- ति मेदिनी । सोमः चन्द्रदेवः। रजसि-पुष्पे । ऋतुमती-स्त्रीधर्मिणी । व्यञ्जनं- लोम । पूर्व = कृतं पुण्यं । पितुरिति शेषः। परं करिष्यमाणं सुकृतम् , परलोकं वा । पयोधरी-अविवाहिताया. पितृगृहे वर्तमानायाः कन्याया उत्पद्यमानी स्तनौ । रतिः-मैथुनेच्छा, पुरुषाभिलाषश्च । परपुरुपसम्पर्को वा । इष्टान् स्वर्गा- दिकान् । रज.-- आर्त्तवं । हन्यात् अधः पातयेत् ॥ २०४ ॥ ऋतुमत्यां-कन्याया'मिति शेषः । स्वेच्छादानं यस्मै कस्मै चन वराय यथालाभं दानम् । नग्ना=अनागतार्त्तवा, कुचहीना वा । स्वायम्भुवः= स्वयम्भूपुत्रः॥ २०५।। .