पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'लूकीयम् ] "* अभिनवराजलक्ष्मीविराजितम् * २८१ वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूपते धिक्कष्टं जरयाऽभिभूतपुरुपं पुत्रोऽप्यवज्ञायते ॥१८॥ अथ कदाचित्सा तेन सहैकशयने पराङ्मुखी यावत्तिष्ठति, तावद्गृहे चौरः प्रविष्टः। साऽपि तं चौरं दृष्ट्वा भयव्याकुलिता वृद्धमपि तं पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात्पुलका- श्चितसर्वगात्रश्चिन्तयामास-'अहो! किमेषा मामद्याऽवगूहते ? । यावनिपुणतया पश्यति, तावद्गृहकोणैकदेशे चौरं दृष्ट्वा व्यचिन्त- यत्-'नूनमेषाऽस्य भयान्सामालिङ्गति'। इति ज्ञात्वा तं चौरमाह- 'या ममोद्विजते नित्यं सा ममाद्याऽवगृहुते । प्रियकारक ! भद्रं ते यन्ममास्ति हरस्व तत् ॥ १८७ ।। तच्छुत्वा चौरोऽप्याह-- 'हर्तव्यन्ते न पश्यामि हर्तव्यं चेद्भविष्यति । पुनरप्यागमिष्यामि यदीयं नाऽवगूहते' ॥ १८८ ॥ तस्माचौरस्याप्युपकारिणः श्रेयश्चिन्त्यते, कि पुनर्न शरणा- गतस्य । अपि चाऽयन्तैर्विप्रकृतोऽस्माकमेव पुष्टये भविष्यति, तदीयरन्ध्रदर्शनाय चेन्यनेककारणेनायमवध्यः' इति । पतदाकारिमर्दनोऽन्यं सचिवं वक्रनासं पप्रच्छ-'भद्र ! -साम्प्रतमेवं स्थिते किं कर्तव्यम् ? । सोऽब्रवीत्-'देव ! अवध्यो- ऽयम्' । यतः- 'शत्रवोऽपि हितायैव विवदन्त परस्परम् । दूरतः परिहरन्ति, तथा तरुण्योऽपि पलितकेशं पुरुष दूरत. परिहरन्ति । अन्न श्वेतकेशास्थिखण्डयो. श्वैत्येन साम्यम् । चाण्डालकूपेषु अस्थिखण्ड परिचयाय वध्यते स्मेति प्रसिद्धि ॥१८५॥ गात्रं वपुः । विगलिता-विकलता गता। दृष्टिः =लोचनम् । उपहतं नष्टम् । लालायते-लालाविलं भवति । शुश्रूषते सेवते ॥ १८६ ॥ तेन वृद्धवणिजा । तिष्ठति-स्वपिति। पुलकाञ्चितसर्वगात्र रोमाञ्चितसकलशरीर. । निपुणतया सावधानतया (अच्छी तरह से)॥१८७॥श्रेयः कल्याणम् । ते चायसै । विप्रकृत =प्रकोपितः।