पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४.

  • पञ्चतन्त्रम् *

[३ काको- 1 अतोऽहं ब्रवीमि-'श्रूयते हि कपोतेन'-इति । तछूत्वाऽरिमर्दनो दीप्ताक्षं पृष्टवान्-‘एवमवस्थिते कि भवा- न्मन्यते ?।' सोऽत्रवीत्-'देव ! न हन्तव्य एवायम् । यतः- या ममोद्विजते नित्यं सा मामद्याऽवगृहते । प्रियकारक ! भद्रन्ते यन्ममास्ति हरस्व तत् ॥ १८३ ॥ चौरेण चाप्युक्तम्- 'हर्तव्यं ते न पश्यामि हर्तव्यं चेद्भविष्यति । पुनरप्यागमिष्यामि यदीयं नावगूहते' ।। १८४ ॥ अरिमर्दनः पृष्टवान्-'का च नावगूहते ? कश्चायं चौरः १- इति विस्तरतः श्रोतुमिच्छामि ।' दीप्ताक्षः कथयति- ८. चौरवृद्धवणिग्वधूकथा अस्ति कस्मिश्चिदधिष्ठाने कामातुरो नाम वृद्धवणिकू। तेन च कामोपहतचेतसा मृतभार्येण काचिन्निर्धनवणिक्सुता प्रभूतं धनं दत्वोद्वाहिता। अथ सा दुःखाभिभूता तं वृद्धवणिजं द्रष्टु- मपि न शशाक । युक्तञ्चैतत्- श्वेतं पदं शिरसि यत्तु शिरोरुहाणां स्थानं परं परिभवस्य तदेव पुंसाम् । आरोपिताऽस्थिशकलं परिहृत्य यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥१८५॥ तथा च-गात्रं सङ्कुचितं गतिर्विगलिता दन्ताश्च नाशङ्गता दृष्टिाम्यति रूपमप्युपहतं वक्त्रञ्च लालायते । अयम् शत्रुमन्त्री । उद्विजते-उद्विग्ना भवति,(चिढती है। अवगृहते आश्लिष्यति। भद्रं शुभम् । इयं तव पत्नी। यदि नावगूहते यदि त्वां नालिङ्गति ॥ १८४ ॥ कामोपहतचेतसा कामातुरेण । मृतभार्येण मृतपन्नीकेन । उद्वाहिता= विवाहिता । दुःखाभिभूता दुःखिता। श्वेतमिति । शिरसि केशानां श्वेताना यत्स्थानं तदेव पुंसामपमानस्थानम् । यथा-आरोपितास्थिखण्डं चण्डालकूपं लोका इयं कथाऽश्लीलत्वात्काशिकमध्यमपरीक्षापाट्याशबदिर्भूता । T