पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२७९ वभञ्ज लुब्धको दीनां कपोतीञ्च मुमोच ताम् ॥१७॥ लुब्धकेन ततो मुक्ता दृष्वाऽग्नौ पतितं पतिम् । कपोती विललापाऽऽर्ता शोकसन्तप्तमानसा ॥१७३।। 'न कार्यमद्य मे नाथ! जीवितेन त्वया विना । दीनायाः पतिहीनाया किनार्या जीविते फलम् ?॥१७४॥ मानो दर्पस्त्वहङ्कारः कुलपूजा च बन्धुषु । दासमृत्यजनेष्वाज्ञा - वैधव्येन प्रणश्यति' ।।१७५।। एवं विलप्य बहुशः कृपणं भृशदुःखिता। 'पतिव्रता सुसन्दीप्तं तमेवाऽग्नि विवेश सा ।।१७६।। ततो दिव्याऽम्बरधरा दिव्याभरणभूपिता। भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका ॥१७७।। सोऽपि दिव्यतनुर्भूत्वा यथार्थमिदमब्रवीत् । 'अहो मामनुगच्छन्त्या कृतं साधु शुभे!त्वया ॥१७८।। तिस्रः कोच्योऽर्धकोटी च यानि रोमाणि मानुषे । तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥१७९।। कपोतदेह सूर्याऽस्ते प्रत्यहं - सुखमन्वभूत् । कपोतदेहवत्साऽऽसीत्प्राक्पुण्यप्रभवं हि तत् ॥१८०।। शोकाविष्टस्ततो व्याधो विवेश च वनं धनम् । प्राणिहिंसां परित्यज्य बहुनिर्वेदवान्भृशम् ॥१८१॥ तत्र दावानलं दृष्ट्वा विवेश विरताशयः । निर्दग्धकल्मपो भूत्वा स्वर्गसौख्यमवाप्तवान् ॥१८२।। 7' मानः दर्प. । अहङ्कार' अभिमान । कुलपूजा माङ्गलिकाग्रपूजा, स्वजनेषु सत्कारश्च ॥ १७५ ॥ कृपणं = दीनं-यथास्यात्तथेतिक्रियाविशेषणम् । स =कपोत । दिव्य- तनुः दिव्यवपुः। शुभे शोभने । मानुषे-मनुष्यशरीरे। अनुगच्छति-सह याति । (सती होती है) ॥१७९॥ सा कपोती। प्राकपुण्यप्रभवम् अतिथिसत्का- रपुण्यजम् । तत्=सुखम् ॥ १८० ॥ निर्वेद पश्चात्ताप. । तत्र-बने। दावानलं =बनानलम् । विरताशय =विरक्तमानसः। निर्दग्धकल्मप-विधूतपापः॥ १८२ ॥ 'स्वर्यातः' इति केचित्पठन्ति