पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ] * अभिनवराजलक्ष्मीविराजितम् * २७३ पुरुषैरुक्तम्-'कथमेतत् ?' । ब्राह्मणः कथयति- ६ स्वर्णहंस-स्वर्णपक्षि-राजकथा अस्ति कस्मिाश्चिदधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति । तत्र च प्रभूता जाम्बू- नदमया हंसास्तिष्ठन्ति । षण्मासे पिच्छमेकैकं परित्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्पक्षी समायीतः। तैश्वोक्तः-'अस्मा. कंमध्ये त्वया न वस्तव्यं । येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैकदानं कृत्वा गृहीतमेतत्सरः। एवञ्च किंबहुना-परस्पर द्वैधमुत्पन्नम् । स च राज्ञ शरणं गतोऽब्रवीत्-'देव! एते पक्षिण एवं वदन्ति,-'यदस्माकं राजा किं करिष्यति ?-'न कस्याप्यावासं दद्मः'। मया चोक्तम्-'न शोभनं युष्माभिरभिहितम् , अहं गत्वा राज्ञे निवेदयिष्यामि-' इति । एवं स्थिते देवः प्रमाणम् । ततो राजा भृत्यानब्रवीत्-'भो भोः ! गच्छत ! सर्वान्पक्षिणी गताऽसून्कृत्वा शीघ्रमानयत ।' राजादेशान्तरमेव प्रचेलुस्ते । अथ लगुडहस्तान्राजपुरुषान्दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्- भोः स्वजनाः! न शोभनमापतितम् । ततः सर्वैरेकमतीभूय शीघ्रमुत्पतितव्यम् । तैश्च तथानुष्ठितम् । अतोऽहं ब्रवीमि- 'भूतान्यो नानुगृह्णाति-'इति ! ॥2॥ -इत्युक्त्वा पुनरपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा । T समर्थितवान्।भूतान् जीवान् । आत्मीयानिति तु प्रकृतानुगुणोऽर्थ ।न अनुगृह्णाति- तेषु दया न कुस्ते । तानुपेक्षते । भूतार्था =सिद्धान्यपि कार्याणि । योधै =भटै (सिपाही)। जाम्बूनदमया.= स्वर्णमया । पिच्छं-पक्षम् । गृहीतं-शुल्केन गृहीतम् । (भाडे पर या मोल ले रखा है)। द्वैध = विवाद । ( झगडा )। स च-वृहत्पक्षी च। देव =भवान् । प्रमाण-निर्गता । गतासून्-मृतान् । ते-मृत्या । एकमतीभूय एक मतं कृत्वा । तथानुष्ठितम् उत्पतिता । ('उड़ गए')। प्रत्यूषे प्रभाते। तत्र-सर्पविल- १ 'यात्मन. शरणागतान्' इति मुद्रितः पाठः।