पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]]

  • अभिनवराजलक्ष्मीविराजितम् *

२६२ . कि पुनः यावन कश्चिद्वायसो दृश्यते, तावच्छाखाग्रमधिरूढो हरमना वन्दिभिरभिष्ट्रयमानोऽरिमर्दनस्तापरिजनान्प्रोवाच-'अहो ! ज्ञायतां तेषां मार्गः, कतमेन मार्गेण प्रनष्टाः कोकाः ?, तद्यावन. दुर्ग समाश्रयन्ति, तावदेव पृष्ठतोगत्वा व्यापादयामि । उक्तञ्च-- 'वृतिमप्याश्रित शत्रुरवध्यः स्याजिगीषुणा । संश्रितो दुर्ग सामथ्या परया युतम् ।। १२४ ।। अथैतस्मिन्प्रस्ताव स्थिरजीवी चिन्तयामास-'यदेतेऽस्मच्छ- त्रवोऽनुपलब्धास्मद्वृत्तान्ता यथागतमेव यान्ति, ततो मया न किञ्चित्कृतं भवति । उक्तञ्च-- अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् । आरब्धस्याऽन्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ १२५ ।। तद्वरमनारम्भो, न चारम्भविघातः । तदहमेताञ्छब्दं संश्रा. व्यात्मानं दर्शयामि। इति- विचार्य मन्दं मन्द शब्दमकरोत् । तच्छ्रुत्वा ते सकला अप्युलूकास्तद्वधाय जग्मुः। अथ तेनोक्तम्- 'अहो ! अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री मेघवर्णेनैवेशी- मवस्थां नीतः। तन्निवेदयतात्मस्वाम्यग्रे। तेन सह बहु-वक्तव्य- मस्ति ।' अथ तैनिवेदितः स उलूकराजो विस्मयाविष्टस्तत्क्षणा- त्तस्य | वहुव्रणकिणाङ्कितस्य] सकाशं गत्वा प्रोवाच-'भो भो ! किमेतां दशां गतस्त्वं तत्कथ्यताम् ।' स्थिरजीवी प्राह-देव ! श्रूयतां मे एतदवस्थाकारणम्-अतीतदिने, स दुरात्मा मेघवर्णों व्यग्रत्वात् ॥ १२३ ॥ प्रनष्टाः पलायिता. । वृति कण्टकवृतिम् । (बाड)। जिगीषुणा-विजयार्थिना । परया उत्कृष्टया ॥ १२४ ॥ प्रस्तावे-प्रसङ्गे । अनु पलब्धो-न ज्ञातोऽस्मवृत्तान्तो यैस्ते तथाभूता । यथागतं यथैवायातास्तथैव । (तता न किञ्चित्=तो मैने फिर क्या किया)। प्रथम श्रेष्ठम् , आद्यञ्च । (सबसे पहिले तो)। अन्तगमनं समाप्ति । द्वितीयम् अपरम् ॥ १२५ ॥ वर=किञ्चिच्छेष्टम् । एतान्-उलूकान् । आत्मस्वामिन =उलूकराजस्याने। १'चिरजीवी' पाठः।