पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२६५ - नीयते, तदेनं वञ्चयित्वा पशुमादाय शीतत्राणं कुर्मः। अथ तेषामेकतमो वेषपरिवर्तनं विधाय संमुखोभूत्वाऽपमा- र्गेण तमाहिताऽग्निमूचे-'भो ! भो वालाग्निहोत्रिन् ! किमेवं जनविरुद्धं हास्यकार्यमनुष्ठीयते ?-यदेष सारमेयोऽपवित्र: स्कन्धाधिरूढो नीयते!। उक्तञ्च यतः- 'श्वानकुक्कुटचाण्डालाः समस्पर्शाः प्रकीर्तिताः । रासभोष्ट्रौ विशेषेण तस्मात्तान्नैव संरपृशेत् ॥११५।। ततश्च तेन कोपाभिभूतेनाभिहितम्-अहो! किमन्धो भवान् ? यत्पशुंसारमेयं प्रतिपादयसि।'सोऽब्रवीत्-'ब्रह्मन् ! कोपस्त्वयान कार्य, यथेच्छ गम्यताम्'-इति । अथ यावत्किञ्चि. दध्वनोऽन्तरं गच्छति, तावद् द्वितीयो धूर्तः समुखे समुपेत्य तमुवाच-'भो ब्रह्मन् ! कष्ट कष्टम् ! यद्यपि वल्लभोऽयं ते मृत- वत्सः, तथापि स्कन्धमारोपयितुमयुक्तम् । उक्तञ्च यतः- तिर्यञ्च मानुषं वापि यो मृतं संस्पृशेत्कुधीः । पञ्चगव्येन शुद्धिः स्यात्तस्य चान्द्रायणेन वा' ।।११।। अथासौ सकोपमिदमाह-'भोः किमन्धो भवान् ? यत्पशु मृतवत्सं वदसि । सोऽब्रवीत्-भगवन् ! मा कोपं कुरु, अज्ञाना. न्मयाऽभिहितं, तत्वमात्मरुचि समाचर'-इति । अथ यावत्स्तोकं वनान्तरं गच्छति तावत्तृतीयोऽन्यवेषधारी धूर्तः सम्मुखः समुपेत्य तमुवाच-'भो अयुक्तमेतत्, यत्त्वं रासभं स्कन्धाधिरूढं नयसि, तत्त्यज्यतामपः । उक्तञ्च- यः स्पृशेद्रासभं मया ज्ञानादज्ञानतोऽपि वा। सचैलं स्नानमुद्दिष्टं तस्य पापप्रशान्तये ॥११७|| हिमपात =तुषारवर्षः। व्यर्थतां नीयते सोढुं शक्यते। शीतत्राणं-शीतादात्म रक्षणम् । अपमार्गेण-मार्गान्तरेण । आगत्य सम्मुखो भूत्वेति सम्बन्ध । बाला- लिहोत्रिन् ! मूर्खश्रोत्रिय ! । हास्यकार्यम्=उपहासयोग्यं कर्म । सारमेय = कुकुर । पशु-छागम् । कष्टं कष्टं-धिक धिक् । ('दुख है कि')। मृतवत्स = मृतो गोवत्स । चान्द्रायणं-व्रतविशेष । आत्मरुचि-स्वाभिलषितम् । ..