पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६०

  • पञ्चतन्त्रम् *

[३ काको- श्रेयः पुष्पफलं वृक्षादध्नः श्रेयो घृतं स्मृतम् । श्रेयस्तैलञ्च पिण्याकाच्छेयान्धर्मस्तु, मानुपात् ॥ ९८ ॥ , सृष्टा । मूत्रपुरीपार्थमाहाराय च केवलम् । धर्महीनाः परार्थाय · पुरुपाः , पशोव यथा ॥ ९९ ॥ स्थैर्य सर्वेषु कृत्येपु. शंसन्ति नयपण्डिताः । बह्वन्तराययुक्तस्य धर्मस्य त्वरिता गतिः ॥ १००।। संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण वः । 'परोपकारः पुण्याय पापाय परपीडनम् ॥ १०१॥ श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवाऽवधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।। १०२ ॥ अथ तस्य तां धर्मोपदेशनां श्रुत्वा शशक आह-'भो ! भोः कपिञ्जल ! एष नदीतीरे तपस्वी धर्मवादी तिष्ठति, तदेन पृच्छावः । कपिञ्जल आह-'ननु स्वभावतोऽस्माक शत्रुभूतोऽयमस्ति, तदरे स्थितौ पृच्छावः, कदाचिदस्य व्रतवैकल्यं सम्पद्यत । ततो दूरस्थितावूचतुः-'भो भोस्तपस्विन् ! धर्मोपदेशक ! आवयोर्वि- कूतिका वा-पक्षिभेदः । कारणम् =कर्त्तव्यकारणम् ॥ ९७-॥ वृक्षात्-पुष्पं फलं वा श्रेयः-श्रेष्ठं लभ्यते, दध्न. श्रेष्ठं घृतं भवति, पिण्याकः तिलकल्कः ( खली)। मानुषात्-मनुष्यशरीरात् ॥ ९८ ॥ मूत्रेति । मूत्रपुरीषोत्सर्जन-भोजनादिमात्रव्यापारा. खलु धर्महीना, परार्थाय पश्वादिवद्भारवहनाय ॥ ९९ ॥ यद्यपि-स्थैर्य-स्थिरतया विमृश्य कार्य- करणम् । शंसन्ति-प्रशंसन्ति । नयपण्डिता.-नीतिकुशलाः । तथापि बह्वन्तराय- युक्तस्य-विघ्नबहुलस्य, धर्मस्य तु-त्वरिता-चपला। गतिः गमनम् । अत शीघ्रमेव धर्मोपार्जनं कर्तव्यं तत्र विलम्बो न कार्यः॥ १०॥ व=युष्मभ्यं संक्षेपेण धर्मः कथ्यते । तमेवाह-परेति । पुण्याय=पुण्यजन- कः ॥ १.१॥ धर्मसर्वस्व धर्मतत्त्वम् । अवधार्यता=निश्चीयताम् । प्रतिकूला नि=दुःखजनकानि ॥ १०२॥ स्थितौ तिष्ठन्तौ । व्रतवैकल्यं कपटवतित्वम् । कदाचित् तदम्भं त्यक्त्वा