पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[ ३ काको- जानात्येव भवान् ,-यथार्थवादिनो दूतस्य न दोषः करणीयः, दूतमुखा हि राजानः सर्व एव । उक्तञ्च- उद्यतेष्वपि शस्त्रेषु बन्धुवर्गवधेष्वपि । परुपाण्यपि जल्पन्तो वध्या दूता न भूभुजा' ।। ८८॥ तच्छ्रुत्वा स आह-'भोः शशक ! तत्कथय भगवतश्चन्द्र- मसः सन्देशम् , येन सत्वरं क्रियते ।' स आह–'भवताऽतीत- दिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः, तकि न वेत्ति भवान्,-यन्मम परिग्रहोऽयं ?, तद्यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनाऽत्र हृदे नागन्तव्यम्-'इति सन्देशः। गज आह-'अथ व वर्तते भगवान्स्वामी चन्द्रः। स आह- 'अत्र हृदे साम्प्रतं शशकानां भवाथमथितानां हतशेषाणां समाश्वासनाय समायातस्तिष्ठति, अहं पुनस्तवान्तिकं प्रेषितः।' गज आह-यद्येवं तद्दर्शय मे तं स्वामिनं येन प्रणम्याऽ- न्यत्र गच्छामि।' शशक आह-भोः आगच्छ मया सहकाकी येन दर्शयामि'। तथानुष्ठिते शशको निशासमये तं गजं हृदतीरे नीत्वा, जलमध्ये स्थितं चन्द्रबिम्बमदर्शयत् । आह च-'भो ! एष नः स्वामी जल- मध्ये समाधिस्थस्तिष्ठति, तन्निभृतं प्रणम्य सत्वरं व्रजति-नो चेत्समाधिभङ्गाद्भूयोऽपि प्रभूत कोपं करिष्यति ।' अथ गजोऽपि त्रस्तमनास्तं प्रणम्याऽपुनरागमनायप्रस्थितः। गजयूथप. । दोष =अपराधः। उद्यतेविति । दूतेन शस्त्रोत्थापने कृतेऽपि, स्वबन्धुवर्गस्य वधे च कृतेपि, परुषवचनेषूक्तेष्वपि राज्ञा तस्य वधो न कार्य इत्यर्थ. ॥ ८८ ॥ स.-गजराज । सन्देश शासनम् । ('हुकुम' )। क्रियते= अनुष्टीयते । अतीतदिवसे गतदिवसे । प्रभूता = बहवः । परिग्रह. = अनुजीवि- वर्ग । कुटुम्बम् । हतगेषाणां = निर्दलितावशिष्टानाम् । अन्तिकं समीपं । तत्-तस्मात् । तथानुष्टिते-गजेन तद्वचने स्वीकृते। समाधिस्थः ध्यानावस्थित । १ 'उद्धृतेषु' इति पाठान्तरम् ।