पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२५३ पक्षिण ऊचु:--'कथमेतत् ? । स आह- १. शशगजयूथनाथकथा कस्मिश्चिद्वने चतुर्दन्तो नाम महागजो यूथाधिपः प्रतिवसति स्म । तत्र कदाचिन्महत्यनावृष्टिः सञ्जाता-प्रभूतवर्षाणि यावत् । तया तडागहृदपल्वसरांसिशोपमुपगतानि । अथ तैः समस्तगजैः स गजराजः प्रोक्तः-'देव ! पिपासाकुला गजकलभा मृतप्रायाः, अपरे मृताश्च। तदन्विष्यतां कश्चिजलाशयो यत्र जलपानेन स्वस्थतां ब्रजन्ति । ततश्चिरं ध्यात्वा तेनाभिहितम्-'अस्ति महाहदो विविक्ते प्रदेशे स्थलमध्यगतः पातालगङ्गाजलेन सदैव पूर्णः, तत्तत्र गम्यताम्' इति । तथानुष्ठिते पञ्चरात्रमुपसर्पद्भिः समासादितस्तै. स हृदः । तत्र स्वेच्छया जलमवगाह्याऽस्तमनवेलायां निष्क्रान्ताः। तस्य च हृदस्य समन्ताच्छशकविलान्यसङ्ख्यानि सुकोमलभूमौ तिष्ठन्ति । तान्यपि समस्तैरपि तैर्गजैरितस्ततो भ्रमद्भिः परि- भन्नानि । वहवः शशका भग्नपादशिरोग्रीवा विहिताः, केचि- न्मृताः, केचिज्जीवशेषा जाताः। अथ गते तस्मिन्गजयूथे शशकाः सोढेगा गजपादक्षुण्ण- समावासाः, केचिद्भग्नपादाः, अन्ये जर्जरितकलेवरा रुधिरप्लुता अन्ये हतशिशवोवाप्पपिहितलोचनाः समेत्य मिथो सन्त्रं चक्र - 3 व्यपदेशेन नामकीर्तनेन, व्यपदेशेन-नामकीर्तनव्याजेन वा ॥८०॥ तत्र-चने । प्रभूतवर्षाणि-वहूनि वर्षाणि यावत् । तया अनावृष्टया (तडाग = तलाब')। हृद = झील' । पल्वलंतलैया' । (सर सरोवर')। गजकलभा वालगजा । स्थलेति । स्थलमध्यगतोऽपि पातालगङ्गाजलेन परिपूर्ण इत्यर्थ । उपसर्पद्भि = गच्छद्भिः। अस्तमनवेलायां सायङ्काले। शशकाना विलानि-निवासभूतानि गहराणि । सुकोमलभूमौ वालुकाप्रदेशे। भन्नपादशिरोनोवा =मर्दितपादशिर.. कन्धराद्यवयवा. । जीवशेषा -प्राणमात्रशेषा अपि भग्नाडा.। समावासा निवास- १ दिलशब्दस्य नपुसकस्यैव प्रसिद्धया मुद्रितेषु दृश्यमान पुल्लिङ्गप्रोगस्तु नोचित ।