पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ ४. पञ्चतन्त्रम् * [३ काको- गतोऽसि । अथासौ काको विहस्याह-'अहो! न युक्तमेतत् , यन्मयूर -हंस-कोकिल-चक्रवाक-शुक-कारण्डव-हारीत-सारसा- दिषु पक्षिप्रधानेपु विद्यमानेपु दिवान्धस्याऽस्य करालवक्रस्या- भिषेकः क्रियते । तन्नैतन्मम मतम् । न्यतः- वक्रनासं सुजिह्माक्षं क्रूरमप्रियदर्शनम् । अक्रुद्धस्येशं वक्रं भवेत्क्रुद्धस्य कीदृशम् ? ॥७६ ॥ तथा च- स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम् । उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति ? ।। ७७॥ अपरं-वैनतेये स्वामिनि स्थिते किमेष दिवान्धः क्रियते राजा ? । तद्यद्यपि गुणवान्भवति तथाप्येकस्मिन्स्वामिनि स्थिते नाऽन्यो भूपः प्रशस्यते- एक एव हितार्थाय तेजस्वी पार्थिवो भुवः । युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये ॥ ७८॥ गुरूणां नाममात्रेऽपि गृहीते स्वामिसम्भवे । दुष्टानां पुरतः क्षेमं तत्क्षणादेव जायते ।। ७९ ।। तथा च- व्यपदेशेन महतां सिद्धिः सञ्जायते परा। शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥२०॥ करालवक्त्रस्य भीषणमुखस्य । सुजिह्माक्ष-कुटिललोचनं । सिद्धि लाभ. । 'का नः, इति क्वचित् पाठः । एक एव तेजस्वी पार्थिव: राजा भुवो हितार्थाय भवति । यथा युगान्ते= प्रलये बहवो भास्वन्त. द्वादशापि सूर्या. उद्यन्ति-ते च जगतो विपत्तय एव, तथाऽनेकराजसमवायोऽपि देशविपत्तय एव भवति, न कल्याणायेत्याशयः । गुरूणां महता दुष्टानां, पुरत.-स्वामिसम्भवे नाममात्रेपि गृहीते, क्षेमं= विपत्तिनाश । वीरस्य राज्ञो नामकीर्तनादेव चौरादयत्रस्यन्तीत्याशय ॥७॥