पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४९ । लूकीयम् ] * अभिनवराजलक्ष्मीविराजितम् ** द्राग्रिपुः साध्यते। स्वपक्षे च-देवी' । जननी । कञ्चुकी। मालिकः । शय्यापालँकः । स्पशाध्यक्षः। सांवत्सरिकः । भिर्षक। जलवाहकः । ताम्बूलवाहकः । आचार्यः । अङ्गरक्षकः। स्थान- चिन्तकः। छत्रधारःविलासिनी। एतेषांद्वारेण स्वपक्षे विधातः। वैद्यसांवत्सराचार्याः स्वपक्षेऽधिकृताश्चराः । तथाऽहितुण्डिकोन्मत्ताःसर्व जानन्ति शत्रुपु ॥ ६८ ॥ तथाच- कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् । विदाङ्कुर्वन्तु महतस्तलं विद्विपदम्भसः ।। ६९ ।। एवं मन्त्रिवाक्यमाकाऽत्रान्तरे मेघवर्ण आह-तात ! अथ कि निमित्तमेवंविधं प्राणान्तिकं सदैव वायसोलूकानां वैरम् ? । स आह-वत्स! १ प्रथमा कथा कदाचिद्धंस-शुक-बक कोकिल-चातको लूक-कपोत-पारावत- मुखियाजी)। लिखिते तु 'करपाल' इति न पाठ । चलाध्यक्ष =सेनापति । सीमापाल' अन्तपाल । क्वचित्तथैव पाठ । प्रोत्कटभृत्याः वनपाला , उद्दण्डा वा राजसेवका । आटविकेति लिखिते पाठ । देवी राजमहिषी । जननी राजमाता। कञ्चुकी अन्त पुररक्षक। मालिक = मालाकार । शय्यापालका-रात्रिरक्षक । स्पगाध्यक्ष =चराध्यक्ष । 'स्पर्शाध्यक्ष' इति तु स्थूलदृश पठन्ति । सावत्सरिक =ज्यौतिषिक । भिषक-वैध । जल- वाहक =पानीयशालाध्यक्ष । जलदाता च । ताम्बूलवाहका स्थगीवाहक । आचार्य =गुरु । नाट्यशास्त्राध्यापकश्च । स्थानरक्षक -आसनाध्यक्ष । विलासिनी चारवनितादि । विघात =शत्रुकृतो भेद । सावत्सरः-गणक । चरा =गूढचरा। आहितुण्डिक =व्यालग्राही। उन्मत्ता= उन्मत्तवेषधरा ॥ ६८॥ तीर्थेषु मन्त्र्याद्यष्टादशसु जलाशयेषु च । कृत्यविद = कार्यकुशला । प्रणिधय =गूढपुरुषाः, रत्नाद्यन्वेषकाश्च। 'प्रणिधि प्रार्थने चरे' इत्यमर । अन्त -पदं स्थानं, पादप्रक्षेपञ्च-कृत्वा । महत.-विद्विषन्नेव-शत्रुरेव, अम्भ =जल, तस्य, तलं तत्त्वं, तलप्रदेशश्च । विदाङ्कुर्वन्तु-जानन्तु ॥ ६९ ॥ १ लिखितपुम्नकेऽस्या कथाया 'प्रथमा कथेति व्यपदेशो दृश्यते । >