पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ] * अभिनवराजलक्ष्मीविराजितम् ५ २४७ उक्तञ्च-स्त्रीणां शत्रोः कुमित्रस्य पण्यस्त्रीणां विशेषतः। यो भवेदेकभावेन न स जीवति मानवः ॥ ६२॥ कृत्यं देवद्विजातीनामात्मनश्च गुरोस्तथा । एकभावेन कर्तव्यं शेष भावद्वयाश्रितैः।। ६३ ।। एको भावः सदा शस्तो यतीनां भावितात्मनाम् । श्रीलुब्धानां न लोकानां विशेषेण महीभृताम् ॥ ६४ ॥ तेद्वैधीभावं संश्रितस्य तव त्वस्थाने वासो भविष्यति, लोभाश्रयाच शत्रुमुच्चाटयिष्यसि । अपर यदि किञ्चिच्छिद्रं तस्य पश्यसि तद्गत्वा व्यापादयिष्यसि । मेघवर्ण आह-तात ! अहमविदितसंश्रयस्तस्य । तत्कथं तस्यच्छिद्रं ज्ञास्यामि ? ।' स्थिरजीव्याह-'वत्स! न केवलं स्थान,-छिद्राण्यपि तस्य प्रकटीकरिष्यामि प्रणिधिभिः। उक्तञ्च- गावो गन्धेन पश्यन्ति वेदैः पश्यन्ति वै द्विजाः। चारैः पश्यन्ति राजानश्चक्षुामितरे जनाः ।। ६५ ।। तथा चोक्तमत्र विषये- यस्तीर्थानि निजे पक्षे परपक्षे विशेपत.। आप्तश्चारैर्नृपो वेत्ति न स दुर्गतिमाप्नुयात् ॥ ६६ ॥ नीयमपि कफ वैद्या. पूर्व सितागुडादिना वर्धयित्वाऽपनयन्तीति प्रसिद्धमेव ॥६१॥ पण्यस्त्रीवेश्या । एकभावेन नितान्त विश्वासेन ॥ ६२॥ द्विजातयः विप्रा । एकभावेन निश्चिन्तेन एकभावाश्रितेन चेतसा । भावद्वयं द्वैधीभाव.। विश्वास- मभिदर्शयताप्यविश्वस्तेन ॥ ६३ ॥ एको भाव -विश्वासात्मकः, स्नेहात्मकश्च । श्रीलब्धाना-लोके परा कोटिमिच्छताम् । 'स्त्रीलुब्धाना' मिति क्वचित्पाठः ॥१४॥ लोभाश्रयात् लोभावेशात् । उच्चाटयिष्यति-स्वथानादुच्छेदयिष्यसि ।अवि- दितसंश्रय -अज्ञातनिवास । तस्य-शत्रो. । 'मया सोऽविदितसंश्रय' इति पाठान्तरम् । प्रणिधिभि -गूढपुरुषै. । (खुफिया' 'जासूस') । द्विजाः पण्डिता । १ 'द्वैधीभावं संश्रितस्त्वं स्वस्थाने वासमाप्स्यसि । लोभाश्रयाद्रुतं मृत्युः शत्रुमुच्चाटयिष्यति ॥ इति श्लोकात्मक पाठः सुन्दर.।