पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२

  • पञ्चतन्त्रम् *

[३ काको- स्वस्थानं सुदृढं कृत्वा शूरैश्चाप्तैर्महाबलैः । परदेशं ततो गच्छेत्प्रणिधिव्याप्तमग्रतः ॥ ३८ ॥ अज्ञातवीवधाऽऽसारतोयशस्यो व्रजेत्तु यः । परराष्ट्रं-, स नो भूयः स्वराष्ट्रमधिगच्छति ॥ ३९ ॥ ततो युक्तं कर्तुमपसरणम् । अन्यच्च- न विग्रहो न सन्धानं बलिना तेन पापिना । कार्यलाभमपेक्ष्याऽपसरणं क्रियते बुधैः ॥ ४० ॥ उक्तश्च यतः- यदपसरति मेषः कारणं तत्प्रहर्तु, मृगपतिरपि कोपात्सङ्घचत्युत्पतिष्णुः । हृदयनिहितवैरागूढमत्रप्रचाराः किमपि विगणयन्तो बुद्धिमन्तःसहन्ते।। अन्यच्च- बलवन्तं रिपुं दृष्ट्वा देशत्यागं करोति यः । युधिष्ठिर इवाप्नोति पुनर्जीवन्स मेदिनीम् ॥ ४२ ।। युद्धयतेऽहकृतिं कृत्वा दुर्बलो यो बलीयसा । स तस्य वान्छितं कुर्यादात्मनश्च कुलक्षयम् ॥ ४३ ॥ स्वस्थानं स्वराज्यम्। सुदृढं सुरक्षितम् , आप्तै विश्वस्त.। परदेणं- शत्रुविषयम् । अग्रतः आदावेव । प्रणिधिव्याप्तम्-गुप्तचरैः सर्वतो व्याप्तम् ॥३८॥ अज्ञातवीवधासारतोयशस्यः अनिर्णीतधान्यादिप्राप्तिसुहृद्बलान्नजलादिः । 'धान्यादेवविधः प्राप्तिरासारस्तु सुहृवल मिति वैजयन्ती। 'विवधो वोवधो भारे पर्याहाराध्वनोरपी तिहैमश्च। परराष्ट्र शत्रुदेशं । भूयः-पुनरपि। न अधिगच्छति न प्राप्नोति ॥ ३९ ॥ अपसरणं पलायनं । 'कर्तुन्ते युक्त'मिति योजना । वुधै - पापिना तेन वलिना-शत्रुणा विग्रहः युद्धं, सन्धिर्वा न क्रियते, किन्तु कार्यलाभ- मपेक्ष्य-कार्यसिद्धिमुद्दिश्य । 'कार्यकालमपेक्ष्ये ति गौडाः पठन्ति । अपसरणं= पलायनमेव, क्रियते ॥४०॥ अपसरति-पृष्टतोऽपयाति, (पीछे हटता है)। प्रहत्तु= शत्रुमपरं मेषं हन्तुम् । मृगपतिः सिहः। सङ्घचति-अगसोचं करोति। उत्पतिष्णुः= उत्पतनशील गूढ.-मन्त्रस्य प्रचारः-विषयः प्रसारो वा येपान्ते तथाभूताः। गूट- मन्त्रोपचारा'इति पाठान्तरम्। विगणयन्तः विचारयन्तः। समयं नयन्तः॥४१॥अहकृति १'कार्यकालं तत्र युक्तंप्रभो! कर्तु द्वितीयं यानमद्य वः' इतिपा०ाहितीयभीतरक्षण।