पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[ ३ काको- उक्तञ्च-य उपेक्षेत शत्रु स्वं प्रसरन्तं यहच्छया। रोगञ्चालस्यसंयुक्तः स शनैस्तेन हन्यते ॥२॥ तथाच-जातमात्रं न यः शत्रुव्याधिञ्च प्रशमं नयेत् । अतिपुष्टाङ्गयुक्तोपि स पश्चात्तेन हन्यते ॥ ३ ॥ अथान्येद्युः स वायसराजः सर्वान्वायससचिवानाहूय प्रोवाच "भोः ! उत्कटस्तावदस्माकं शत्रुरुद्यमसम्पन्नः, कालविच्च । नित्य- मेव निशागमे समेत्याऽस्मत्पक्षकदनं करोति, तत्कथमस्य प्रति- विधानं ? । वयं तावद्रात्रौ न पश्यामः, न च तस्य दिवा दुर्ग विजानीमः, येन गत्वा प्रहरामः । तत्र विषये किं युज्यते- सन्धि-विग्रह-यानाऽऽसन-संश्रय-द्वैधीभावानामेकतमस्य क्रिय- माणस्य ? । तद्विचार्य शीघ्रं कथयन्तु भवन्तः।' अथ ते प्रोचुः-'युक्तमभिहितं देवेन,-यदेपप्रश्नः कृतः। उक्तञ्च- अपृष्ठेनापि वक्तव्यं सचिवेनात्र किञ्चन । पृष्टेन तु ऋतं पथ्यं वाच्यं च प्रियमप्रियम् ॥ ४॥ यो न पृष्टो हितं ब्रूते परिणामे सुखावहम् । सुमन्त्री प्रियवक्ता च केवलं स रिपुः स्मृतः ।।५।। तस्मादेकान्तमासाद्य कार्यो मन्त्रो महीपते!। येन तस्य वयं कुर्मो निर्णयं कारणं तथा ॥ ६ ॥ प्रसरन्तं वर्द्धमानम् । यदृच्छया स्वेच्छया। तेन-शत्रुणा रोगेण च । अतिपु- 'टाङ्गयुक्तः वलवानपि। तेन-रोगेण शत्रुणा च ॥३॥ मचिवान-मन्त्रिणः। उत्कटः प्रचण्ड.। उद्यमसम्पन्नः उद्योगी। कालवित् कर्तव्यकार्यसमयवित् । अस्मत्पक्षकदनम् अस्मत्पक्षविनाशनम् । प्रतिविधानम् , उपायश्च । देवेन राज्ञा । किञ्चन यत्किञ्चिदपि प्रियमप्रियं वा। ऋतं सत्यम् । पथ्यं हितम् ॥४॥ यो मन्त्री पृष्टोपि हितं परिणामसुखदं वचो न ब्रूते, स न मन्त्री, न च प्रियकर्ता, किन्तु स रिपुरेवेत्यर्थः॥ ५॥ हे महोपते ! तस्मादेकान्ते मन्त्रः क्रियता, येन वयं यथावद्वक्तुं शक्नुमः । तस्य मन्त्रस्य ॥ ६ ॥ २ 'पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपते.' इति पाठान्तरम् । २ 'मन्त्री च प्रियवक्ता चेति' पाठान्तरम् । 'न मन्नति' तु गौडाः पठन्ति । ३ 'वारण' पा० ।