पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • अभिनवराजलक्ष्मीविराजितम् *

२३५ अथ काकोलूकीयम् । . - अथेदमारभ्यते काकोलूकीयं नाम तृतीयं तन्त्रं, यस्यायमाद्यः श्लोकः- न विश्वसेत्पूर्वविरोधितस्य शत्रोश्च मित्रत्वमुपागतस्य । दग्धां गुहां पश्य उलूकपूर्णा काकप्रणीतेन हुताशनेन ॥१॥ तद्यथानुश्रूयते-'अति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तस्य समीपस्थोऽनेकशाखासनाथोऽतिघनतरपत्रच्छन्नो न्यग्रोधपादपोऽस्ति । तत्र च मेघवर्णों नाम वायसराजोऽनेककाकपरिवारःप्रति- वसति स्म।सतत्र विहितदुर्गरचनः सपरिजनः कालं नयति स्म । तथाऽन्योऽरिमर्दनो नामोलूकराजोऽसङ्खयोलूकपरिवारो गिरिगुहादुर्गाश्रयः प्रतिवसति स्म । सच रात्रावभ्येत्य सदैव तस्य न्यग्रोधस्य समन्तात्परि. भ्रमति। अथोलूकराजः पूर्वविरोधवशाद्यं कश्चिद्वायसं समासाद- यति तं व्यापाद्य गच्छति । एवं नित्याऽभिगमानाच्छनैः-शनैस्त- न्यग्रोधपादपदुर्ग तेन समन्तानिर्वायसं कृतम् । अथवा भवत्येवम्

  • श्रीगुरुप्रसादशास्त्रिकृता अभिनवराजलक्ष्मी: *

काकाश्चोलूकाश्चैषा समाहारः-काकोलूकी 'येषाञ्च विरोध इत्येकवद्भाव । काकोलूकमधिकृत्य कृतं तन्त्रं-काकोलूकीयम् । 'शिशुकन्दे'त्यादिना छप्रत्यय । पूर्व विरोधितस्य-इदानी-मित्रत्वमुपागतस्यापि शत्रोविश्वास न कुर्यात् । काक- प्रणीतेन=काकप्रक्षिप्तेन, काकानीतेन वा । 'प्रणीतमुपसम्पन्ने कृते क्षिप्ते प्रवेशिते' हति हैम ॥१॥ अतिघनतरपत्रच्छन्न =निबिडतरपलाशसंछन्न । अनेककाकपरिवार' अनेक- काककुलपरिवृत । विहिता दुर्गस्य रचना येनासौ तथाभूतः । गिरिगुहैवाश्रयो यस्यासौ तथाभूत । समासादयति लभते । नित्याभिगमनात-निरन्तरमागमनात् । निर्वायसं-काकशुन्यम् ।