पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

२३० [ २ मित्र- ऽपि वेगेन दिगन्तरं यास्यति, एष पुनर्जलचरः स्थले कथं भवि- ध्यति ?-इति व्याकुलोऽस्मि'।' अत्रान्तरे प्राप्तोऽयं मन्थरकः। हिरण्यक आह-भद्र ! न युक्तमनुष्ठितं भवता, यदन समा. यातः, तद्भूयोऽपि द्रुततरं गम्यताम् ,-यावदसौ लुब्धको न समायाति ।' मन्थरक आह-'भद्र! किं करोमि, न शक्नोमि तत्रस्थो मित्रव्यसनाऽग्निदाह सोढुं, तेनाहमत्रागतः। अथवा साध्विद. मुच्यते- दयितजनविप्रयोगा वित्तवियोगाश्च केन सह्याः स्युः । यदि सुमहीपधिकल्पो वयस्यजनसङ्गमो न स्यात् ।। १८४ ।। वरं प्राणपरित्यागो न वियोगो भवादृशैः । प्राणा जन्मान्तरे भूयो भवन्ति न भवद्विधाः' ॥ १८५ ।। एवं तस्य प्रवदत आकर्णपूरितशरासनो लुब्धकोऽप्युपा- गतः । तं दृष्ट्वा मूषकेण तस्य स्नायुपाशस्तत्क्षणात्खण्डितः । अत्रान्तरे चित्राङ्गः सत्वरं पृष्टमवलोकयन्प्रधावितः । लघु- पतनको वृक्षमारूढः । हिरण्यकश्च समोपवर्ति विलं प्रविष्टः । अथाऽसौ लुब्धको मृगगमनाद्विषण्णवदनो व्यर्थश्रमस्तं मन्थरकं मन्दं मन्दं स्थलमध्ये गच्छन्तं दृष्टवान् । अचिन्तयच्च- 'यद्यपि कुरङ्गो धात्रापहृतस्तथाप्ययं कूर्म आहारार्थसम्पादितः, तदद्यास्यामिषेण मे कुटुम्बस्याहारनिर्वृत्तिर्भविष्यति' ।--एवं विचिन्त्य तं द8ः संछाद्य धनुषि समारोप्य स्कन्धे कृत्वा गृह (आस्तान्तावत्= छोड़ो' 'रहने दो')। अनीतिः अनुचितम् । अनुष्ठिता-कृता व्यापादनं वधम् । एषः-मन्थरक । तत्रस्थः क्षेत्रकोणस्थ.। मित्रेति । मित्रवि पत्तिश्रवणवहिज्वालाम् । दयितजनविप्रयोगाः सुहृद्विरहाः। वित्तवियोगा.-धन नाशादयः। विप्रयोग. विरहः। सुमहौषधिकल्प =अमोघवीर्यमहौषधितुल्य.. वयस्याः मित्राणि ॥ १८५ ॥ तस्य-कच्छपस्य । आकर्णपूरितशरासनः कर्ण- पर्यन्ताकृष्टकोदण्ड । पृष्ठमवलोकयन् वलितग्रीवं पश्यन् । (घूम कर देखता हुआ )। कुरङ्ग =मृग । धात्रा भाग्येन । कूर्म-कच्छपः । ('कछुवा' )। .