पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- २२२

  • पञ्चतन्नस् है

[२ मित्र- मया पुरुषस्य लाभः क्षतिश्च दातव्या, तत्परिणतिः पुनस्त्वदा- यत्ता'-इति। अथाऽसौ यावदुत्तिष्ठति तावद्गुप्तधनो विषूचिकया खिद्य- मानो रुजाऽभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तदोषेण कृतोपवासः सञ्जातः। सोमिलकोऽपि प्रभाते तगृहान्निष्क्रम्योपभुक्तधनगृहं गतः। तेनापि चाभ्युत्थानादिना सत्कृतो विहितभोजनाच्छादनसम्मा- नस्तस्यैव गृहे भव्यशय्यामारुह्य सुष्वाप । ततश्च निशीथे याव- स्पश्यति तावत्तावेव द्वौ पुरुषौ मिथो मन्त्रयतः । अथ तयोरेक आह-'भोः कर्तः! अनेन सोमिलकस्योप- कारं कुर्वता प्रभूतो व्ययः कृतः, तत्कथय कथमस्योद्धारक- विधिभविष्यति,?। अनेन सर्वमेतब्यवहारकगृहात्समानीतम्।' स आह-भोः कर्मन् ! मम कृत्यमेतत्, परिणतिस्त्वदायत्ता'-इति । अथ प्रभातसमये राजपुरुषो राजप्रसादजं वित्तमादाय समायात उपभुक्तधनाय समर्पयामास । तत् दृष्ट्वा सोमिलकश्चि न्तयामास-सञ्चयरहितोऽपि वरमेष उपभुक्तधनः, नासौ कदयों गुप्तधनः । उक्तञ्च- अग्निहोत्रफला वेदाः, शीलवृत्तफलं श्रुतम् । रतिपुत्रफला दारा, दत्तभुक्तफलं धनम् ।। १५३ ।। हठात् बलात्कारेण , (जबरदस्ती ) । भक्तिवर्जितम् अनादरेण । विषूचिका उदरामयः ('हैजा' 'दस्त')। खिद्यमानः क्लिश्यमानः । विहितो भोजनाच्छाद- नादिना सम्मानो यस्यासौ तथा । उद्धारकविधिः-ऋणप्रतीकारोपाय. । ( उद्धा- रक-उधार' 'कर्ज')। कथमस्योद्धारकमत आह-अनेनेति । अनेन भुक्तध- नेन । व्यवहारकगृहात्-कुसीदजीविगृहात् । ('वोहरा' महाजन' )। कृत्य- कार्यकरणमात्रम् । परिणाम =फलम्। राजप्रसादज-राजानुग्रहसूचकम् । कदर्यः बद्धमुष्टिः ( 'कजूस' )। श्रुतं शास्त्राभ्यास.। शीलवृत्तफलं विनयसदाचार- फलं दानभोगफलकमेव धनं श्रेष्ठम् ॥ १५३ ॥ १ 'लाभः क्षतिश्च कर्त्तन्येति' पाठान्तरम् । तत्र क्षति. " 1.-व्ययः।