पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्तिः]

  • अभिनवराजलक्ष्मीविराजितम् *

२२१ अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् । अभक्ष्यं मन्यते सक्ष्यं स्त्रीवाक्यप्रेरितो नरः ॥ १५१ ॥ एवं स तस्य पृष्ठतः सभार्यः परिश्रमंश्चिरकालसनयत् । नच तयोः पतनमभूत् । ततश्च निर्वेदात्पञ्चदशे वर्षे शृगालः स्वभार्यामाह- 'शिथिलौ च सुवृद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे ! दश वर्षाणि पञ्च च ॥ १५२ ।। तयोस्तत्पश्चादपि पातो न भविष्यति, तत्तदेव स्वस्थान गच्छावः' । अतोऽहं ब्रवीमि-'शिथिलौ च सुवृद्धौ च-'इति । ॐ पुरुप आह-'यद्येवं तद्च्छ भूयोऽपि वर्धमानपुरं, तत्र द्वौ वणिकपुत्रौ वसतः । एको गुप्तधनः, द्वितीय उपभुक्तधनः । तत- स्तयोः स्वरूपं वुद्धकस्य वर प्रार्थनीयः। यदि ने धनेन प्रयो- जनमभक्षितेन,-ततस्त्वामपि गुप्तधनं करोमि । अथवा दत्त- भोग्येन धनेन ते प्रयोजनं तदुपभुक्तधनं करोमि'-इति । एवमुक्त्वाऽदर्शनं गतः । सोमिलकोऽपि विस्मितमना भूयो- ऽपि वर्धमानपुरं गतः। सन्ध्यासमये श्रान्तः कथमपि तत्पुर प्राप्तो गुप्तधनगृहं पृच्छन्कृच्छ्राल्लुब्ध्वा अस्तमिते सूर्य प्रविष्टः । अथाऽसौ भार्यापुत्रसमेतेन गुप्तधनेन निर्भय॑मानो हठा. गृहं प्रविश्योपविष्टः । ततश्च भोजनवेलायां तस्यापि भक्तिवर्जितं किञ्चिदशनंदत्तम् । ततोभुक्त्वा तत्रैव यावत्सुप्तो निशीथे पश्यति तावत्तावपि द्वौ पुरुषौ पररपरं मन्त्रयतः । तत्रैक आह-भोः कर्त्तः ! कि त्वयाऽस्य गुप्तधनस्यान्यो- ऽधिको व्ययो निर्मित:?, यत्सोमिलकस्याऽनेन भोजनं दत्तम् । तदयुक्तं त्वया कृतम् ।' स आह-भोः कर्मन् ! न ममात्र दोषः, ग्लानिमुपगता। स्त्रीवाक्याङ्कुशेन स्त्रीवाक्यान्येवाङ्कुशन्तेन,विशेपेण क्षुण्ण ताडित , यावद्दलान्न हियते न निगृह्यते । सुग-सुगमम् ॥ १५१ ॥ तयो -अण्डकोशयो । 'पतत' 'न वा पततः-' इति निरीक्षितौ मयेत्यन्वय ॥ १५२ ॥ यद्येवम् महती ते धनेच्छा । भूय =पुनरपि। गुप्तधन =रक्षितधन -कदर्य । अदर्शनम् अन्तर्वानम् । तत्पुरं वर्द्धमानपुरम् । निर्भय॑मान -सन्तर्प्यमान n