पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति.] * अभिनवराजलक्ष्मीविराजितम् * पुरुष आह-'किमेतत् ? ।' सोऽब्रवीत्- ६. वृषभषणानुसारिशृगालकथा कस्मिश्चिदधिष्ठाने तीक्ष्णविषाणो नाम महावृषभः प्रति- वसति स्म । स च मदातिरेकात्परित्यक्तनिजयूथः शृङ्गाभ्यां नदी- तटानि विदारयन्स्वेच्छया मरकतसदृशानि शष्पाणि भक्षयन्न- रण्यचरो बभूव। अथ तत्रैव वने प्रैलोभको नाम शृगाल' प्रतिवसति स्म । स कदाचित्स्वभार्यया सह नदी तीरे सुखोपविष्टस्तिष्ठति । 375TT- न्तरे स तीक्ष्णविषाणो जलार्थ तदेव पुलिनमवतीर्णः। ततश्च तस्य लम्बमानौ वृषणाववलोक्य शृगाल्या शृगालोऽभिहितः- 'स्वामिन् ! पश्याऽस्य वृषभस्य मांसपिण्डौ लम्बमानौ। यथा स्थितौ-तदेतो क्षणेन प्रहरेण वा पतिष्यतः, एवं ज्ञात्वा भवता पृष्ठानुयायिना भाव्यम् । शृगाल आह-'प्रिये ! न ज्ञायते कदाचिदेतयोःपतनं भवि- ष्यति वा, नवा, १। तत्कि वृथाश्रमाय मां नियोजयसि, १। अत्र स्थस्तावजलार्थमागतान्मूषकान्भक्षयिष्यामि समं त्वया, मार्गो- ऽयं यतस्तेषाम् । अपरं यदि त्वां मुक्त्वास्य तीक्ष्णविषाणस्य वृपभस्य पृष्ठे गमिष्यामि, तदागत्यान्य कश्चिदेतत्स्थानं समाश्र- यिष्यति, तन्नैतद्युज्यते कर्तुम् । उक्तञ्च- यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ १४४ ॥ मदातिरेकात्-गर्वातिशयात् । यूथंबृन्दम् । शष्पाणि घासाङ्कुरान् । वृषणौ अण्डकोशौ। मासपिण्डौ-मासखण्डावण्डकोशौ। यथास्थिताविति । अनयो स्थितिविशेषेण ज्ञायते यच्छीघ्र पतिष्यत इत्यर्थ । यत-यस्मात्कार- णात्। तेषा-मूषकाणाम् । मुक्त्वा परित्यज्य। ध्रुवाणि निश्चितानि, केवलमाशया निषेवते । तस्य ध्रुवाण्यपि नश्यन्ति । अध्रुवाणि तु नष्टान्येवेत्यर्थ ॥ १४४ ॥ १ 'प्रलम्वदृषणो नाम षण्ड ' ( षण्ड-साड )। २ 'प्रलोभिक.' पा० -- .