पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[२ मित्र- एवं निश्चित्य दर्भमयी रज्जु विधाय स्वकण्ठे पाशं नियोज्य शाखायामात्मानं निवध्य यावत्प्रक्षिपति तावदेकः पुमानाका- शस्थ पवेदमाह-'भो भोः सोमिलक | मैवं साहसंकुरु, अहन्ते वित्तापहारक', न ते भोजनाच्छादनाभ्यधिकां वराटिकामपि सहे, तद्गच्छ स्वगृहं प्रति। अन्यच्च भवदीयसाहसेनाहं तुष्टः, यथा मे न स्याब्यर्थ दर्शनं, तत्प्रार्थ्यतामभीष्टो वरः कश्चित् ।' सोमिलक आह-'यद्येवं तद्देहि मे प्रभूतं धनम् ।' स आह भोः ! किकरिष्यसि भोगरहितेन धनेन ? । यतस्तव भोजनाच्छादना. भ्यधिका प्राप्तिरपि नास्ति । किन्तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥१४१ ।। सोमिलक आह-'यद्यपि तस्य धनस्य भोगो नास्ति, तथापि तद्भवतु । उक्तञ्च- कृपणोऽप्यकुलीनोऽपि तदानाश्रितमानसैः । सेव्यते स नरो लौकैर्यस्य स्याद्वित्तसञ्चयः ॥ १४२ ।। तथाच- शिथिलौ च सुवृद्धौ च पततः पततो न वा । 'निरीक्षितौ मया भद्रे ! दश वर्षाणि पञ्च च' ।। १४३ ।। पति-शरीरं पातयति । (फॉसी पर लटकना चाहता ही था कि'-) वराटिका कपर्दिका ( ='कौड़ी' )। अन्यच्च-किन्तु । प्रभूतं विपुलम् । केवला-स्वमात्रोपभोग्या । सामान्या सकलोपभोगार्हा । पथिकैः-मार्गागतैरपि । भुज्यते सेव्यते ॥ १४१ ॥ तहाना- श्रितमानसैः कदाचिदय दास्यती'त्याशापाशव? । वित्तसञ्चय =धनराशि. । ॥ १४२ ॥ शिथिलौ श्लथवन्धनौ । सुवृद्धौ-नितरां बृद्धिगतो। एतेन पतन- योग्यता ध्वनिता । सुबद्धावितिपाठे-वृत्तौ । पुष्टावित्यर्थः । पतत. शीघ्र पतिष्यत । नवा नवा पतिव्यत.-१ इत्येवं विचार्य । 'भद्रे इति स्वभार्यासम्बो- धनम् । मया पञ्चदश वर्षाणि यावदाशया निरीक्षितौ तदापि न पतिताविति भावः । एवञ्चाशावद्धा लोका अदातारमपि धनिनमनुसरन्त्येवेति भावः ॥१४३॥