पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति.]

  • अभिनवराजलक्ष्मीविराजितम् *

दनाभ्यधिका समृद्धिर्नास्ति, तत्कि त्वयास्य सुवर्णशतत्रयं प्रद- त्तम् ?' । स आह-भोः कर्मन् !, मयाऽवश्यं दातव्यं व्यवसा- यिनाम् । तत्र च तस्य परिणतिस्त्वदायत्ता' इति । अथ याव- दसौ कौलिकः प्रवुद्धः सुवर्णनन्थिमवलोकयति तावद्रिक्तं पश्य- ति। ततः साक्षेपं चिन्तयामास-'अहो ! किमेतन्महता कष्टेनो- पार्जितं वित्तं हेलया क्वापि गतम् ? । तद्यर्थश्रमोऽकिञ्चनः कथं स्वपल्या मित्राणाञ्च मुखं दर्शयिष्यामि ।' इति निश्चित्य तदेव पत्तनङ्गतः। तत्र च वर्षमात्रेणापि सुवर्णशतपञ्चकमुपायं भूयो- ऽपि स्वस्थानं प्रति प्रस्थितः। यावर्धपथे स्थितमटवीगतन्तं वटं भूयः समासादयति तावदस्य भगवान्भानुरस्त जगाम । अथ सुवर्णनाशभयात्सुश्रान्तोऽपि न विश्राम्यति, केवलं कृतगृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृशी दृष्टिदेशे समागच्छन्तौ जल्पन्तौ चाऽणोत् । तत्रैकः प्राह- भोः कर्तः ! किं त्वयैतस्य सुवर्णशतपञ्चकं प्रदत्तम् ? तम्कि त्वं न वेत्सि यद्भोजनाच्छादनाभ्यधिकमस्य किञ्चिन्नास्ति !' । स आह-भोः कर्मन् ! मयाऽवश्यं देयं व्यवसायिनाम्, तस्य परिणा- मस्त्वदायत्तः, तम्कि मामुपालम्भयसि ।।' तच्छुत्वा सोमिलको यावदन्थिमवलोकयति तावत्सुवर्ण नास्ति । ततः परं दुःखमा- पन्नो व्यचिन्तयत्-'अहो! किं मम धनरहितस्य जीवितेन ? तत्र वटवृक्षे आत्मानमुद्वध्य प्राणांस्त्यजामि।' - अर्धमार्गे। ('आधी दूर आनेपर' ) अटव्या वने। पर्यटत =गच्छत । व्यालभयात्-सिहादिभयात् । रौद्राकारी भीषणाकृतिधारिणौ । कर्मन् हे अदृष्ट! व्यवसायिनाम् उद्योगिनाम् । तस्य धनस्य । परिणति =परिणाम , स्थिरी- उपभोगश्च। रिक्त सुवर्णखण्डरहितम् । साक्षेपम् आत्मनो निन्दापूर्वकम् । हेलया सहसा । व्यर्थश्रम निष्फलप्रयास । अकिञ्चन =दरिद्रः। कृता गृह प्रति उत्कण्ठा येनासौ तथा'। तादृशौ भीपणाकारौ । उद्वध्य-ऊर्ध्व वध्वा । प्रक्षि- > १ 'यावदर्धपथे भूयोऽटवीगतस्य भगवान्भानुरिति मुद्रितः पाठः ।