पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२

  • पञ्चतन्त्रम् *

[२ मित्र- तदेतत्सकलं सुखदुःखमनुभूय परं विषादमुपागतोऽनेन मित्रेण त्वत्सकाशमानीतः। तदेतन्मे वैराग्यकारणम् ।' मन्थरक आह-भद्र ! भवति सुहृद्यमसन्दिग्धं, यत् क्षुत्क्षा- मोऽपि शत्रुभूतं त्वां भक्ष्यस्थाने स्थितमेवं पृष्टमारोप्यानयति,- न मार्गेऽपि अक्षयति । उक्तञ्च यतः- विकारं याति नो चित्तं वित्ते यस्य कदाचन । मित्रं स्यात्सर्वकाले च, कारयेन्मित्रमुत्तमम् ॥ ११६ ।। विद्वद्भिः सुहृदामत्र चिह्नरेतैरसंशयम् । • परीक्षाकरणं प्रोक्तं होमाग्नेरिव पण्डितैः ।। ११७ ॥ आपत्काले तु सम्प्राप्ते यन्मित्रं, मित्रमेव तत् । वृद्धिकाले तु सम्प्राप्ते दुर्जनोऽपि सुहृद्भवेत् ।। ११८ ।। तन्ममाप्यद्याऽस्य विषये विश्वासः समुत्पन्नो-यतो नीति- विरुद्धयं मैत्री मांसाशिभिर्वायसैः सह-जलचराणाम् । अथवा साध्विमुच्यते- मित्रं कोऽपि न कस्यापि नितान्तं न च वैरकृत् । दृश्यते मित्रविध्वस्तात्कार्याद्वैरी परीक्षितः ॥ ११९ ।। तत्स्वागतं भवतः, स्वगृहवदास्यतामत्र सरस्तीरे। यच्च T सुखदुःख-सुखञ्च दुःखञ्च । सुख-सहितमिति वा विग्रह । अनेन मित्रेण= वायसेन । त्वत्सकाशं मन्थरकसन्निधौ । हिरण्यको सूपकराजोऽहम् । अयम्= वायस । असन्दिग्धं यथा स्यात्तथा,-सुहृत्-मित्रम् । क्षुत्क्षाम. क्षुधातुर. तथा च तथाहि । ईदृशैश्चिहैमित्रपरीक्षा कार्येत्यर्थ । मित्रमेव-न दुर्जन । वृद्धि- काले समृद्धिकाले तु ॥ ११८ ॥ अस्य-वायसस्य । अव यावत्तु मम दृढो विश्वासो नासीत् । यत =यस्मा- हेतोः ('क्योकि'-)। जलचराणामिति । मम कच्छपस्येति यावत् । नितान्त= सर्वदा । मित्रेण मित्रनामधारिणा । विध्वस्तात् विनाशितात् । कार्यात्-कार्येण । परीक्षित =कृतपरीक्षः। वैरी दृश्यते वैरीत्युच्यते । कार्यहान्यादिचिह्नमित्रनाम- धारी शत्रुरित्युच्यते इति यावत् । अन्येतु 'दृश्यते मित्रमुद्दिष्टात्कार्याद्वैरी