पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति.]

  • अभिनवराजलक्ष्मीविराजितम् *

२११ साऽब्रवीत्-'यदहमनेन प्राणसंशयाद्रक्षिता, तदेनं मुक्त्वा मम जीवन्त्या नाऽन्यः पाणि ग्रहीष्यति'-इति। अनेन वार्ताव्यति- करेण रजनी व्युष्टा । अथ प्रातस्तत्र सञ्जाते महाजनसमवाये तं वार्ताव्यतिकरं श्रुत्वा राजदुहिता तमुद्देशमागता । कर्णपर- म्परया श्रुत्वा दण्डपाशिकसुतापि तत्रैवागता । अथ तं महाजन- , समवायं श्रुत्वा राजापि तत्रैवाजगाम,-प्राप्तव्यमर्थं प्राह च- 'भोः, विश्रब्धं कथय, कीदृशोऽसौ वृत्तान्तः' ? । अथ सोऽब्रवीत्-'प्राप्तव्यमर्थ लभते मनुष्यः' इति । राज- कन्या स्मृत्वा प्राह-'देवोऽपि तं लवयितुं न शक्तः-' इति । ततो दण्डपाशिकसुताऽब्रवीत्-'तस्मान्न शोचामि न विस्मयो में- इति । तमखिललोकवृत्तान्तमाकर्ण्य वणिक्सुताऽब्रवीत्- - 'यदस्मदीयं न हि तत्परेषाम्' इति । अभयदानं दत्त्वा राजा पृथक्पृथग्वृत्तान्ताज्ञात्वाऽवगत- तत्त्वस्तस्मै प्राप्तव्यमर्थाय स्वदुहितर सवहुमानं ग्रामसहस्रेण समं सर्वालङ्कारपरिवारयुतां दत्त्वा त्वं मे पुत्रोऽसीति नगरविदितं तं यौवराज्येऽभिषिक्तवान् । दण्डपाशिकेनापि स्वदुहिता स्व- शक्त्या वस्त्रदानादिना सम्भाव्य प्राप्तव्यमर्थाय प्रदत्ता। अथ प्राप्तव्यमर्थेनापि स्वीयपितृमातरौ समस्तकुटुम्वावृतौ तस्मिन्नगरे सम्मानपुरःसरं समानीती। अथ सोऽपि स्वगोत्रेण सह विविधभोगानुपभुञ्जानः सुखेना. वस्थितः। अतोऽहं ब्रवीमि-'प्राप्तव्यमर्थ लभते मनुष्यः' इति । 'धैर्येण । स्थिरीकृत्य =आश्वास्य। अपयाते-गते। श्वशुर-हे कन्यापित. ! । प्रदाय-वाचा दत्त्वा । प्राणसंशयात्-जीवनसङ्कटात् । मुक्त्वा=विहाय । वार्ता व्यतिकरण वार्तालापप्रसङ्गेन । ('इस बातचीत के प्रसङ्गसे')। व्युष्टा=व्यतिक्रान्ता । प्रभातमभूदित्यर्थ । महाजनसमवाये-पौरजनमेलापके । (भीड मे )। वार्ता- व्यतिकर-जनकथाकोलाहलं, ('कहासुनी गडवड)। स्मृत्वा स्ववृत्तान्तं स्मृत्वा । विस्मय =कौतुकम् । पृथक् पृथक्-राजकन्यादे । अवगततत्त्व-ज्ञातसकल- वृत्तान्त । प्राप्तव्यमर्थाय तस्मै वणिक्पुत्राय । 'पुत्रोऽसीति-मत्पुत्रस्त्वमिति नगरलोकविदितमुक्त्वा । सम्भाव्य-सत्कृत्य च । स वणिक्सुत , वणिक् च ।